Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s17.4

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s17.4

Language
English

v3.c24.s17.4

आधाराधेयमाद्यैश्च सर्वं प्रागुक्तवन्नयेत् ।
वर्धमानमिति प्रोक्तं वर्धमाने तु विन्यसेत् ॥ ४२ ॥
अधोभूदारुयोगं च तयोध्र्वोर्ध्वं तथा न्यसेत् ।
अज्ञानाद्वैपरीत्यं चेत्सर्वसंपद्विनाशनम् ॥ ४३ ॥
तस्मात्परिहरेच्छिल्पी सर्वदाह [च] योगतः ।
दारुयोगकर्म प्रोक्तं दारुसन्धिरिहोच्यते ॥ ४४ ॥
यथारहितसन्ध्यक्यं(यः) तद्या योग्यं विचक्षणैः ।
स्तम्भानां दारुयोगेन चोक्तवच्चैव सन्धयः ॥ ४५ ॥
स्तम्भदारु त्रिभागैकं तन्मध्ये तु शिखां(खा) भवेत् ।
तुङ्गतारसमं कुर्यादूर्ध्वं कर्णं शिखान्वितम् ॥ ४६ ॥
अधः कर्णं मध्ये छिद्रं मेषयुद्धं हि योजयेत् ।
विस्तारं सप्तभागेन त्रिभागाधिकमायतम् ॥ ४७ ॥
अथवा सार्धमायामं विस्तारद्विगुणं तु वा ।
अथवा कर्णमाने वा सन्धिरेतत्(प) फणायतम्(तः) ॥ ४८ ॥
सर्वेषामपि दारूणां सन्धेः प्रान्ते तु योजयेत् ।
यथेष्टफलसंमाद्यं चोदयेद्विस्तृतार्थकम् ॥ ४९ ॥
मूलाग्रे कीलकं युक्तं अ(चा) धं प्राद्यभि(पाशिरि)ति स्मृतम् ।
तदेव द्विललाटे च विस्तारार्धाधंचन्द्रवत् ॥ ५० ॥
मध्ये च दन्तसंयुक्तमप्रमूले तु योजयेत् ।
शेषं तु पूर्ववत्कुर्यान्महावृक्षमिति स्मृतम् ॥ ५१ ॥
पतत्स्व(तेषु) वृत्तपादानां त्रिकर्णं वक्ष्यतेऽधुना ।
तदेवं(व) च त्रिकर्णं स्यात्तन्त्रिचूलिकमेव च ॥ ५२ ॥
स्वस्त्याकृतिं(ति) समायुक्तं बलात्कीलकसंयुतम् ।
त्रिकर्णाभमिति प्रोक्तं शेषं प्रागुक्तवन्नयेत् ॥ ५३ ॥
मेषयुद्धे चतुर्विंक्षु चतुःशूलं तु संयुतम् ।
चतुरश्राङ्घ्रिमध्ये तु पट्टयुक्तं सपट्टवत् ॥ ५४ ॥
दन्तसंयुक्तं सन्धिश्च सर्वतोभद्रमीरितम् ।
एतत्संधिविधिश्चाङ्घ्रि यथाशक्ति यथाबलम् ॥ ५५ ॥