Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s18.13
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s18.13
- Language
- English
v3.c24.s18.13
कुर्यात्तु शिल्पविद्भिः क्षुद्रपञ्चतले न्यसेत् ।
षट्ठ्येकषङ्गिर(ङ्गैर)र्कांशः(श)द्वा(त्रयो)दशांशे विशालके ॥ १३ ॥
एतन्तु मध्यमं पञ्चतलं हर्म्ये (ए)व कारयेत् ।
ईशाद्वादशकैकार्कं मनुभागं तथैव च ॥ १४ ॥
एतद्रागविशाले तु श्रेष्ठं पञ्चतलं भवेत् ।
अर्कैकार्कभागं तु मनुपञ्चा(चा)दशांशकम् ॥ १५ ॥
एतद्वै पृथके कुर्यात्क्षुद्रषट्तलहर्म्यकम् ।
सैकार्कांशं मुनि चांशं विधिषोडशभागिकम् ॥ १६ ॥
षट्तलं मध्यमं प्रोक्तं कुर्याद्धर्म्यविशालके ।
त्रिचतुः (तुष्) पञ्चषट्सप्तैकाधिकं दशभागिकम् ॥ १७ ॥
श्रेष्ठं षट्तलमित्युक्तं यथा कुर्याद्विचक्षणः ।
चतुर्दशांशकं पञ्चदशांशं षोडशांशकम् ॥ १८ ॥
सप्तदशाष्टषङ्गंशं क्षुद्रसप्ततलं तु वा ।
पञ्चा (चा) दशांशके चैव षोडशांशकमेव वा ॥ १६ ॥
सप्ता (प्ता) दशांशकं भागं चाष्टषड्वंशभागिकम् ।
एतन्मध्यममाने तु कुर्यात्तु सप्तभूमिके ॥ २० ॥
विस्तारादष्ट्रिभागं च तत्सप्तदशभागिकम् ।
तदष्टादशभागं स्यान्नन्दषड्वंशमेव वा ॥ २१ ॥
श्रेष्ठं सप्ततलं प्रोक्तं कुर्यात्तत्र विचक्षणः ।
सप्ता (प्ता) दशांशकं चैव विस्तारा(रस)ष्टादशांशकम् ॥ २२ ॥
नवषड्वंशकं चैव विशाले द्विदशांशकम् ।
क्षुद्रमष्टतलं ज्ञेयं हर्म्य कुर्यात्तु भागतः ॥ २३ ॥
नवमेव द्विभागं स्यान्नन्दषड्वंशकं तथा ।
विंशत्यां (त्यं) शक(शमेक) माधिक्यं भागं हर्म्यविशालके ॥ २४ ॥
मध्यमाष्टतलं कुर्याद्रागमानविमानके ।
नवाधिकदशांशं स्याद्विंशतिरैकविंशतिः ॥ २५ ॥
द्वाविंशतिश्च भागे च श्रेष्ठमष्टतलं तथा ।
विंशांशं विशाले तु चैक(सैकं) हस्तं तथैव च ॥ २६ ॥
Linked texts (10)
- Jātaka — Pāli
- Kauṭilīya Arthaśāstra — Kauṭilya, Sanskrit
- Aṣṭādhyāyī — Pāṇini, Sanskrit
- Mānava Dharmaśāstra — Manu & Bhṛgu, Sanskrit
- Mahābhārata — Vyāsa, Sanskrit
- Ṛgvedasaṃhitā — Sanskrit
- Paharpur Charter of the Time of Budhagupta — Sanskrit
- Corpus Inscriptionum Indicarum
- Śatapathabrāhmaṇa — Yājñavalkya & Śāṇḍilya (Vedic teacher), Sanskrit
- Nasik cave inscription (No. 16, N. 5) (ed. Hultzsch 1906) — Prakrit