Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s18.14

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s18.14

Language
English

v3.c24.s18.14

द्वाविंशति च भागं च त्रयोविंशतिभागिकम् ।
क्षुद्रं नवतलं ह्येवं कुर्याद्धागे विमानके ॥ २७ ॥
एकविंशतिभागं च तद्वद्द्वाविंशतिभागिकम् ।
त्रयोविंशतिभागं स्याच्चतुर्विंशतिभागिकम् ॥ २८ ॥
मध्यमं(ध्यं) नवतलं कुर्यान्मान्यमं तद्विशालके ।
द्वाविंशतिं(तिश्) च भागं स्यात्त्रयोविंशतिभागिकम् ॥ २९ ॥
चतुर्विंशतिकं च(चापि) पञ्चविंशतिकांशकम् ।
श्रेष्ठं नवतलं प्रोक्तं कुर्यात्तु शिल्प(ल्प)वित्तमः ॥ ३० ॥
त्रयोविंशतिभागं स्याच्चतुर्विंशतिभागिकम् ।
पञ्चविंशतिभागं च षड्विंशतिभागिकम् ॥ ३१ ॥
क्षुद्रं दशतलं कुर्याद्धागं सम(मध्य)विशालके ।
चतुर्विंशतिकं चैव पञ्चविंशतिकं तथा ॥ ३२ ॥
षड्विंशतिश्च भागं च सप्तविंशतिभागिकम् ।
मध्यमं(ध्यं) दशतलं कुर्याद्विमानस्य विशालकम्(के) ॥ ३३ ॥
पञ्चविंशतिभागं स्यात्षड्विंशतिभागिकम् ।
सप्तविंशतिभागं स्यादष्टाविंशतिभागिकम् ॥ ३४ ॥
श्रेष्ठं पङ्क्तितलं कुर्याद्धागं हर्म्यविशालके ।
षड्विंशतिश्च भागं स्यात्सप्तविंशतिभागिकम् ॥ ३५ ॥
अष्टाविंशतिभागं स्यान्नवविंशतिभागिकम् ।
क्षुद्रमेकादशतलं भागमानविशालके ॥ ३६ ॥
सप्तविंशतिभागं च अ(तु चा)ष्टाविंशतिभागिकम् ।
नवविंशतिकं चैव त्रिंशद्भागविशालकम् ॥ ३७ ॥
एकादशतलं प्रोक्तं मध्यमं तद्विमानके ।
अष्टाविंशतिभागं स्यान्नवविंशतिभागिकम् ॥ ३८ ॥
तत्तत्रिंशतिकं चैव चैकत्रिंशांशकं तथा ।
एकादशतलं श्रेष्ठं हर्म्यमूलविशालके ॥ ३९ ॥
नवविंशतिभागं स्यात्त्रिंशदंशविशालकं(कम्) ।
एकत्रिंशद्विभागं स्याद्द्वात्रिंशा(शदं)शकं भवेत् ॥ ४० ॥