Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s18.16

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s18.16

Language
English

v3.c24.s18.16

त्रिहस्तं भूपतीनां च सार्धत्रि[हस्तं] तु भूसुर[णा]म् । वैव(वि)शानां चतुर्हस्तं स्तुपितुङ्गं प्रकल्पयेत् ॥ ५५ ॥ षोडशैकांशकं कृत्वा पालिकाकुड्मलं कृतम् (लान्तकम्) । सार्धांशं पालिकोच्छ्र्यं स्यादर्धांशं वाजनं भवेत् ॥ ५६ ॥ पद्मतुङ्गं त्रिभागं च कन्धरं चैकभागिकम् । अर्धेन कम्पपद्मं स्यात्कुम्भतुङ्गं द्वयंशकम् ॥ ५७ ॥ ऊर्ध्वं च सार्धभागेन दलं (दलिकं) पद्मं प्रकल्पयेत् । तदूर्ध्वं च त्रिभागेन तद्दण्डोदयमीरितम् ॥ ५८ ॥ अर्धांशं कम्पपद्मं स्याद्वाजनं चोभ(चार्ध)भागिकम् । तदूर्ध्वे कम्पपद्मं च सार्धभागेन योजयेत् ॥ ५९ ॥ द्विभागं कुड्मलोत्तुङ्गं दण्डतुङ्गस्य मध्यमे । यथालङ्कारयुक्तं चेत्पद्मकेसरमावृतम् ॥ ६० ॥ अथवा स्तूपिकोत्तुङ्गं दण्डमानेन कारयेत् । पालिकोत्तुङ्ग(ङ्गं) दण्डेन पद्मतुङ्गं त्रिदण्डकम् ॥ ६१ ॥ कन्धरं चैकदण्डं स्यात्कुम्भोच्छ्रा(च्यम)र्धद्विदण्डकम् । एकदण्डो(ण्डमू)र्ध्वपद्मं स्याद्द्विदण्डं कुड्मलोदयम् ॥ ६२ ॥ शेषं तन्मध्यदण्डं स्यात्पूर्ववत्समलङ्कृतम् । शिर(रस्) तारे(रं) तु भूतांशं व्यंशं पालिकायतम् ॥ ६३ ॥ तद्विशाले तु भूतांशं सार्धवेदांश(शं) विस्तृतम् । अब्जतारे त्रिभागैकं(गं च) वन्हिभागैकभागिकम् ॥ ६४ ॥ पद्मस्योपरि कण्ठं स्यात्तन्त्रिधा कुम्भविस्तृतम् । कुम्भतारं नवांशैकं(शं च) भाग(गं) दण्डविशालकम् ॥ ६५ ॥ दण्डतारं त्रिधा पालिका तत्र(था) भागैक(कं) कुड्मलम् । महाब्जा(ब्जम)ष्टदलं कुर्याच्छ्लेषं युक्त्या प्रयोजयेत् ॥ ६६ ॥ तदूर्ध्वे (द्वयं) विवृतं चाधस्तदर्धा(र्धमा)धारपट्टिका । तदर्धं च तथा पट्टं स्यात्तदूद्वयं पद्मं तस्याध(धः) ॥ ६७ ॥ शेषं तु कुड्मलं कुर्याद्विस्तारं युक्तितो न्यसेत् । शिला(लां) वा चेष्टकं दारु लोहं चैव प्रकल्पयेत् ॥ ६८ ॥