Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s18.15
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s18.15
- Language
- English
v3.c24.s18.15
क्षुद्रद्वादशभूमिः स्याद्भागमेवं प्रकल्पयेत् ।
विशाले त्रिंशदंशं स्यादेकत्रिंशं च भागिकम् ॥ ४१ ॥
द्वात्रिंशद्विभागं चैव त्रयस्त्रिंशद्विभागिकम् ।
मध्यमं द्वादशभूमिं(म्या) [च] भागमानं विशालके ॥ ४२ ॥
द्वात्रिंशतिभागं स्यात्त्रयस्त्रिंशच्च भागिकम् ।
चतुस्त्रिंशतिभागं च पञ्चत्रिंशद्विशालके ॥ ४३ ॥
श्रेष्ठद्वादशभूम्याश्च भागं कुर्याद्विचक्षणः ।
कर्णपादस्य बाह्ये तु मध्यपादस्य मध्यमे ॥ ४४ ॥
एवं भागाबसाने स्याद्युक्तियुक्तं प्रयोजयेत् ।
मूलादिस्तूपिपर्यन्तं वेदाश्रं चायताश्रकम् ॥ ४५ ॥
द्यश्रं वृत्ताकृतिं वाथ ग्रीवादिशिखराकृतिः ।
स्तूपिकात्रयसंयुक्तं द्वयं वा चैकमेव वा ॥ ४६ ॥
चतुरश्राकृतिं(ति) यत्(यत) तु नागरं तत्प्रकीर्तितम् ।
मूलाग्रं वृत्तमाकारं तद्वृत्तायतमेव वा ॥ ४७ ॥
ग्रीवादिस्तूपिपर्यन्तं युक्ताश्रो(क्ताश्र) तद्युगाश्रकम् ।
वृत्तस्याग्रे ह्यश्रकं तद्वेसरी(र)नामकं भवेत् ॥ ४८ ॥
मूलाग्रात्स्तूपिपर्यन्तं अ(चा)ष्टाश्रकं वा षडश्रकम् ।
तदग्रं चायतं वापि ग्रीवस्याधो युगाश्रकम् ॥ ४९ ॥
पूर्ववच्चोर्ध्वदेशं स्याद्द्वाविडं परिकीर्तितम् ।
समाश्रकशिखायुक्तं चायामे तच्छिखात्रयम् ॥ ५० ॥
ह्यश्रवृत्तोपरि स्तूपि वृत्तं वा चतुरश्रकम् ।
पद्मादिकुङ्गुलाम्तं स्यादुक्तवद्द्वाकृति(ति) न्यसेत् ॥ ५१ ॥
सपादरात्निमारभ्य षडङ्गुलिविवर्धनात् ।
चतुर्हस्तावसानं स्यात्प्रत्येकं तु चतुर्विधम् ॥ ५२ ॥
कन्यसादुत्तमान्त(न्तं) स्यादेकाद्यर्कतक्षान्तकम् ।
एतेषां स्तूपिकोत्तुङ्गमथजाती(ति) वशो(शादु) च्यते ॥ ५३ ॥
शूद्राणां चैकहस्तं स्याद्द्विहस्तं वैश्यजाति(ती)नाम् ।
सार्धद्विहस्तमानेन युवराजस्य योग्यकम् ॥ ५४ ॥