Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s18.22
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s18.22
- Language
- English
v3.c24.s18.22
स्तूपितुङ्गतदर्धं वाथ विमाने च (नस्य) वंशो(शादु)दयम् ॥ ८३ ॥ 168
एवन्तु शिखरोत्तुङ्गे तदर्धं गळतुङ्गकम् ।
लुपारूपं शिखरं स्याद्ग्रीवान्तं तलवासनम् ॥ ८४ ॥
उत्तरादिसृगालान्तं प्रस्तरस्योक्तवद्गले(लम्) ।
तदूर्ध्वे दण्डकं कुर्याल्लुपमानमिहोच्यते ॥ ८५ ॥ 172
देवानां मानुषाणां च लुपमानं यथाक्रमम् ।
अम्बरं च व्ययं(वियज्)ज्योतिर्गगनं च विहायसि(यसम्) ॥ ८६ ॥
अनन्तं चान्तरीक्षं च पुष्कलं चाष्टधालुपाः ।
देवानां हर्म्यके कुर्यादुक्तमेवं पुरातनैः ॥ ८७ ॥ 176
मही स्या काश्यपी चौर्वी चोर्वी गोत्रा वसुंधरा ।
वसुधा चाष्टधा प्रोक्ता कारयेन्मानुपालये ॥ ८८ ॥
सर्वेषां देवतायोग्यं नराणां चोक्तयोग्यकम् ।
सुराणामुक्तमाने यन्मर्त्येस्तन्नेष्य(ष्यं) यत्नतः ॥ ८९ ॥ 180
शिखरोदयतत्पुल्यं विस्तारोन्नतसम्भवम् ।
अष्टांशं चैकहीनं तु विस्तारोन्नतो(तं) वियत् ॥ ९० ॥
सप्तभागैकहीने तु विस्तृतं ज्योतिर्मानतः ।
षट्(ड्)भागैकहीनं तु विस्तारं गगनस्य(ने च) स्मृतम् ॥ ९१ ॥ 184
पञ्चभागैकहीनं तु विस्तारं तद्विहायसि ।
चतुर्भागैकहीनं तु चानन्ते तद्विशालकम् ॥ ९२ ॥
उत्तुङ्गं त्रित्रिभागैकहीने तारा(रमा)न्तरिक्षकम् ।
तुङ्गे ऽशैकहीनं स्याद्वा(द्वन्या)सं पुष्कलमीरितम् ॥ ९३ ॥ 188