Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s18.23
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s18.23
- Language
- English
v3.c24.s18.23
तुङ्गद्वयान्तं यत्कर्ण माने हस्तायतं तथा ।
अथवा शिखरोत्तुङ्गमष्टभाग(गे) विभाजिते ॥ ९४ ॥
एकांशाधिकविस्तारमुक्तमेतन्मही बुधैः ।
तुङ्गे सप्ताङ्ग(ङ्गे) चाष्टागाद्यं ज्या चेति स्मृतम् ॥ ९५ ॥
तुङ्गे षड्भागविस्तारे सप्तांशं काश्यपी तथा ।
तुङ्गे पञ्चांश(शे) षड्भागं व्यास(सं) चौश्चिरिति स्मृतम् ॥ ९६ ॥
तुङ्गे वेदांशकं व्यासं पञ्चांशं चोर्वो कथ्यते ।
तुङ्गे गुणांश(शे) वेदांशं विस्तारं गोत्रमीरितम् ॥ ९७ ॥
तुङ्गे द्वयंशं च विस्तारं व्यंशमेव वसुंधरा ।
तुङ्गमेकांशकं व्यासं द्विभागं वसुधा भवेत् ॥ ९८ ॥
पूर्ववत्कर्णमानेन(ने च) वृत्तदीर्घमुदीरितम् ।
शिखरे चावृते पारे सभामण्डपगोपुरे ॥ ९९ ॥
शाला च(यां) नासिकाभद्रे कूटनीडैस्तु (दे तु) तोरणैः(यै) ।
कपोतो (ते) पञ्जरं (रे) चैव मुष्टिबन्धादि(दो) सर्वशः ॥ १०० ॥
इस्तिहस्तादिमानानां मानयेच्छिल्पि(ल्प)वित्तमः ।
एतत्तु मध्यदेशे तु तस्मात्कर्णावसानकम् ॥ १०१ ॥
क्रमात्सोपानवत्कुर्यात्तन्मानं वक्ष्यतेऽधुना ।
मध्यकर्णद्वयोर्मध्ये विकल्पं कल्पयेत्सुधीः ॥ १०२ ॥
एकद्वित्रिचतुष्पञ्चषट्सप्ताष्टकरन्त्रिकम् ।
दशमेकादशं चैव द्वादशं च लुपान्वितम् ॥ १०३ ॥
केचित्त्वेकेन वृद्ध्या तु एक(त्रिक)पञ्चलुपान्तकम् ।
यत्सोपानक्रमं कुर्यादतच्छाया(च्छन्द)लुपादिकम् ॥ १०४ ॥
देवानां चक्रवर्ती (र्ति) नां विकल्प (ल्पं) योग्य (युग्मं) सावरः (रम्) ।
तस्माद्द्विद्वान लुपेनै(पयै)व होने शूद्रतः क्रमात् ॥ १०५ ॥
मुख्यं हर्म्यमिदं कुर्यात्क्षुद्रहर्म्यं विशेषतः ।
एकादशविकल्पान्तं भूसुराणां तु योग्यकम् ॥ १०६ ॥
नवान्तं भूपतीनां चैकाद्विकल्पमीरितम् ।
एकाद्यष्टविकल्पान्तं युवराजस्य योग्यकम् ॥ १०७॥