Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s18.25

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s18.25

Language
English

v3.c24.s18.25

करवीरबहुलवर्त्या (यीं) संपुटाभं विकल्पयेत् ।
एककुङ्गुलयुग्येन (योगे)न कार्यार्था(यीवेश)च लुपान्वितम् ॥ १२१ ॥
अग्रं विकसितारभं स्यान्मूलं च निबिडा (ड़ा) न्वितम् ।
कर्णे चैकलुपा पार्श्वे लुपायुग्म (लं) योजयेत् ॥ १२२ ॥
हस्वदीर्घायतः (तं) सर्वं नालिकेरदलान्वितम् ।
बहुबाहुल्यपाकणेंषु बहुकुङ्गल (लं) योजयेत् ॥ १२३ ॥
एवं च लक्षणं प्रोक्तं कटकाकारं तु योजयेत् ।
दण्डिकोर्ध्वं वाजनं स्याल्लुपान्तस्योपरि न्यसेत् ॥ १२४ ॥
क्षेपयोगे (णं च) रू(झ) प्राकारं वामावामं तु योजयेत् ।
एतनु ममला(मामकं) वृत्तं देवानां हर्म्यकं न्यसेत् ॥ १२५ ॥
वृत्तं वाथ षडश्रं वा अ(चा) ष्टाश्रं वा तदायते (तम्) ।
कुर्यात्तत्तल्लुपामानं पूर्ववत्परिकल्पयेत् ॥ १२६ ॥
अहमेतं चैकपञ्चाशं लुपा सङ्ख्याक्रमम् ।
तस्मा [द्] द्विलक्षहीनेन (संख्यायोगेन) सत्रि चत्वारिकान्तकम् ॥ १२७ ॥
देवानां मानुषाणां च शुद्धजात्यावसानकम् ।
मध्यकर्णालुपान्येतत्सर्वं सोपानवत्कुरु ॥ १२८ ॥
शङ्खतुण्डवदाकारं शङ्खावर्तविकल्पकम् ।
प्रागुक्तदक्षिणावर्तं कुर्यात्सु बहुवाजनम् ॥ १२९ ॥
शङ्खावर्तमिदं प्रोक्तं देवहर्म्ये तु योजयेत् ।
सर्वेषां (वीसां) च लुपानां च ऋजुवक्रं तु वा पुनः ॥ १३० ॥
बहुचित्रं बहुच्छिद्रं बहुवेत्रं यथाबलम् ।
यथाशोभं तथा कुर्याल्लेप युत्त्वा प्रयोजयेत् ॥ १३१ ॥
एवमुक्तं लुपा चोर्ध्वं शिखरे वाम्बरेऽपि वा ।
फलकाचोपर्य वापि ताम्रं (म्रेण) वायसा कीलयेत् ॥ १३२ ॥
हेमजेन करोटी (टीं) वा मृत्यरोटी (टीं) विधातयेत् ।
गुडोदकसुधायुक्तं युक्त्वा च लेपयेत्सुधीः ॥ १३३ ॥