Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s18.24
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s18.24
- Language
- English
v3.c24.s18.24
एका(कस्मा)त्सप्तविकल्पान्तं वैश्यानां च प्रकीर्तितम् ।
एका(कस्मा)त्पञ्चविकल्पान्तं शूद्राणां तु योग्यकम् ॥ १०८ ॥
अन्यदि(न्ये)तरजातीनां [च] विकल्पत्रय(यं) पूर्ववत् ।
एवमुक्तं लुपाश्रेणीं कुर्यात्तु शिल्पि(ल्प)वित्तमः ॥ १०६ ॥
मध्ये लुपायतं मानं कर्णविस्तारमिष्यते ।
मध्यादि चान्यथा सर्वं विकल्पं तद्विभाजितम् ॥ ११० ॥
तत्तत्कर्णस्य मानेन विशालं स्यात्सुर्वैवत ।
तत्तत्कर्णस्य मानेन लुपादीर्घं (दैर्घ्यं) मुदीरितम् ॥ १११ ॥
तत्समं वा सपाढं वा सार्धार्धिकमेव वा ।
दीर्घत्वमालम्बने लब्ध्व विस्तारस्य तु (च) निर्गमम् ॥ ११२ ॥
तस्य माने यथाभागं युक्ता तत्रैव योजयेत् ।
त्रिचतुष्पञ्चषण्मात्रं लुपामूलविशालकम् ॥ ११३ ॥
समं वाथ त्रिपादं वा चार्धं (र्ध) वालम्बनान्तकम् ।
एकद्वित्र्यङ्गुलं वापि घने सङ्गेसमतम् ॥ ११४ ॥
अन्यत्सर्वाङ्गविस्तारं यथायुक्तिवशान्न्यसेत् ।
एकद्वित्र्यवसानान्तं स्तम्भस्योपरि विन्यसेत् ॥ ११५ ॥
लुपां (पायाः) प्रागुक्तविस्तारं तत्तद्देशाशुकान्वकम् ।
अधः पादस्य लुपाद्यैश्च तत्र दोषो न विद्यते ॥ ११६ ॥
कर्णात्कन्था(र्णा)वसानं स्याल्लम्बसूत्रं प्रसारयेत् ।
तत्सूत्रादधोदेशे कुत्ति ज्ञात्वा पुरोर्ध्वं (वोर्ध्वे) के ॥ ११७॥
लुपाकुक्षिप्रदेशे तु चत्वा (तुः) सूत्रावसानकम् ।
अर्धचन्द्रप्रदाकारं युक्ता चन्द्रं यशैष्टकम् ॥ ११८ ॥
मूलादियाम (ज) नान्तं स्याच्छिद्रमेकं द्वयं तु वा ।
चन्द्रान्ते चोपरं युक्तं छिद्रं सूत्रादधो न्यसेत् ॥ ११९॥
तच्छिद्रे वेत्रसंयुक्तं लुपाधारात्तु [शिल्प] वित्तमः ।
श्रेण्यां मध्यलुपाः सर्वे(र्वा) लुपासंस्रुया यथेष्टका ॥ १२० ॥