Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s19.1
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s19.1
- Language
- English
v3.c24.s19.1
एकभूमिविधि वक्ष्ये (धानं च) लक्षणं वक्ष्यतेऽधुना ।
जातिश्छन्दं विकल्पं तु चाभासं तु चतुर्विधम् ॥ १ ॥
पूर्वहस्तेन संयुक्तं हर्म्यं जातिरिति स्मृतम् ।
छन्दं त्रिपादहस्तेन विकल्पं स्यात्तदर्थकम् ॥ २ ॥
आभासं चार्धहस्तेन हर्म्यादीनां तु मानयेत् ।
एतदायादिशुद्धयर्थं स्थानकादि त्रिधा भवेत् ॥ ३ ॥
उत्सेधे मान(नं) गृ(ग्रा)ह्यं चेत्स्थानकं तत्प्रकल्प्यते ।
विस्तारे मान(नं) संकल्प्य चासनं तदुदीरितम् ॥ ४ ॥
परिणाहं पदे वापि मानं शयनमीरितम् ।
आसनं संचितं प्रोक्तं स्थानकं स्यात्त्वसंचितम् ॥ ५ ॥
अपसंचित(तं) शयने चे(स्या)त्तत्तत्रिविधहर्म्यके ।
स्थानकादि यस्य मूलं बिम्बहर्म्यं यथाक्रमम् ॥ ६ ॥
कुर्यात्तत्तद्विमानं (द्विम्बं तु) स्याद्विपरीतं विनाशनम् ।
समाश्रं समवृत्तं यत्पुरुषं चेति कथ्यते ॥ ७ ॥
आयताकारधिष्ण्यं वा वनितेति प्रकीर्तितम् ।
पुंविमाने पुरुषं [च] वनितायां(ते) वनितां क्षिपेत् ॥ ८ ॥
शक्तीनां वनितां (तां) वापि पुरु वाषि कल्पयेत् ।
विस्तारोत्सेधभक्तिश्च पूर्ववच्चोक्तवक्रमात् ॥ ९ ॥
कुर्यात्तदेकभौमस्य कन्यसादीनि तुङ्गकम् (कानि) ।
आगम्य (इत्य) म (चा) ष्टधा हर्म्यं गण्यमानमिहोच्यते ॥ १० ॥
उत्सेधे चाष्टभागे तु चैकांरोन मसूरकम् ।
द्विभागं चाङ्घ्रिकोत्तुङ्गं मञ्चमेकेन कारयेत् ॥ ११ ॥
Linked texts (1)
- Mānasāra — Sanskrit