Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s19.2
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s19.2
- Language
- English
v3.c24.s19.2
कन्धरं तत्समं कुर्यात्तदर्द्धयं शिखरोदयम्(यः) ।
तदर्धं स्तूपिकोत्तुङ्गं वक्रं षड्विधमीरितम् ॥ १२ ॥
हर्म्यताराष्टभागैकं हीने वेदविशालकम् ।
तच्चतुर्भागमेकांशं हीने ग्रीवविशालकम् ॥ १३ ॥
शिखरालम्बनान्तं च वेदितारसमान्वितम् ।
लम्वनं [च] त्रिभागे(गमे)कं मध्यनासिविशालकम् ॥ १४ ॥
तत्समं च त्रिपादं वा चार्धं वा निर्गमं भवेत् ।
मध्यनासिविशाले तु चतुस्त्रिशद्विभाजिते ॥ १५ ॥
वन्हिभागं तु तुङ्गं स्यात्तच्चांशं त्र्यंशमेव वा ।
स्थितस्य लूपमूलं तु तदूर्ध्वं नासिकन्धरम् ॥ १६ ॥
तदर्धं च त्रिभागं च कन्धरं मूर्ध्नि तत्समम् ।
तत्सत्यं मैलितुङ्गं स्याद्युक्ता तत्पलिकान्तकम् ॥ १७ ॥
मध्यनास्यर्धमानेन सान्तरं नासमानकम् ।
नासिकाप्राननं सर्वं किम्बरीसमलङ्कृतम् ॥ १८ ॥
नासितारं(र)त्रिभागैकं कुचितारमिति स्मृतम् ।
भूतादिचित्रसंयुक्तं सर्वालङ्कारसंयुतम् ॥ १९ ॥
लम्बनोर्ध्वे दलं ब[न्]ध्वा सर्वालङ्कारसंयुतम् ।
आग्रायं(भ्रमाङ्गं) पत्रसंयुक्तं मूर्ध्वा(र्ध्वाः) पट्टैरलङ्कृतम् ॥ २० ॥
करोटोवदलङ्कृत्य लम्बने पत्रसंयुक्तम् ।
पलिके लम्बनं तत्र श्रेण्या दर्पणवृत्तवत् ॥ २१ ॥
युक्त्यालङ्कारसंयुक्तं शेषं प्रागुक्तवन्नयेत् ।
ग्रोवोच्चं [तु] त्रिभागे(गमे)कं वेदिकोदयमीरितम् ॥ २२ ॥
तत्समं तु गलाग्रे तु चोत्तरादीनि वर्गकम् ।
तदेवावलम्बनं तत्र गोपानादिश्रियान्वितम् ॥ २३ ॥
वेदितुङ्गसमं कुर्यात्क्षुद्रनासिविभूषितम् ।
अथवा तुङ्गमाने तु दशभागं विभाजिते ॥ २४ ॥
सपादार्शमधिष्ठानं तदर्द्धयं पादतुङ्गकम् ।
तदर्धं प्रस्तरोच्चं तु चाश्विन्यंशो[न] गलोदयम् ॥ २५ ॥
Linked texts (1)
- Mānasāra — Sanskrit