Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s19: एकतलविधानम्
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s19
- Language
- English
एकतलविधानम्
v3.c24.s19.1
एकभूमिविधि वक्ष्ये (धानं च) लक्षणं वक्ष्यतेऽधुना ।
जातिश्छन्दं विकल्पं तु चाभासं तु चतुर्विधम् ॥ १ ॥
पूर्वहस्तेन संयुक्तं हर्म्यं जातिरिति स्मृतम् ।
छन्दं त्रिपादहस्तेन विकल्पं स्यात्तदर्थकम् ॥ २ ॥
आभासं चार्धहस्तेन हर्म्यादीनां तु मानयेत् ।
एतदायादिशुद्धयर्थं स्थानकादि त्रिधा भवेत् ॥ ३ ॥
उत्सेधे मान(नं) गृ(ग्रा)ह्यं चेत्स्थानकं तत्प्रकल्प्यते ।
विस्तारे मान(नं) संकल्प्य चासनं तदुदीरितम् ॥ ४ ॥
परिणाहं पदे वापि मानं शयनमीरितम् ।
आसनं संचितं प्रोक्तं स्थानकं स्यात्त्वसंचितम् ॥ ५ ॥
अपसंचित(तं) शयने चे(स्या)त्तत्तत्रिविधहर्म्यके ।
स्थानकादि यस्य मूलं बिम्बहर्म्यं यथाक्रमम् ॥ ६ ॥
कुर्यात्तत्तद्विमानं (द्विम्बं तु) स्याद्विपरीतं विनाशनम् ।
समाश्रं समवृत्तं यत्पुरुषं चेति कथ्यते ॥ ७ ॥
आयताकारधिष्ण्यं वा वनितेति प्रकीर्तितम् ।
पुंविमाने पुरुषं [च] वनितायां(ते) वनितां क्षिपेत् ॥ ८ ॥
शक्तीनां वनितां (तां) वापि पुरु वाषि कल्पयेत् ।
विस्तारोत्सेधभक्तिश्च पूर्ववच्चोक्तवक्रमात् ॥ ९ ॥
कुर्यात्तदेकभौमस्य कन्यसादीनि तुङ्गकम् (कानि) ।
आगम्य (इत्य) म (चा) ष्टधा हर्म्यं गण्यमानमिहोच्यते ॥ १० ॥
उत्सेधे चाष्टभागे तु चैकांरोन मसूरकम् ।
द्विभागं चाङ्घ्रिकोत्तुङ्गं मञ्चमेकेन कारयेत् ॥ ११ ॥
v3.c24.s19.2
कन्धरं तत्समं कुर्यात्तदर्द्धयं शिखरोदयम्(यः) ।
तदर्धं स्तूपिकोत्तुङ्गं वक्रं षड्विधमीरितम् ॥ १२ ॥
हर्म्यताराष्टभागैकं हीने वेदविशालकम् ।
तच्चतुर्भागमेकांशं हीने ग्रीवविशालकम् ॥ १३ ॥
शिखरालम्बनान्तं च वेदितारसमान्वितम् ।
लम्वनं [च] त्रिभागे(गमे)कं मध्यनासिविशालकम् ॥ १४ ॥
तत्समं च त्रिपादं वा चार्धं वा निर्गमं भवेत् ।
मध्यनासिविशाले तु चतुस्त्रिशद्विभाजिते ॥ १५ ॥
वन्हिभागं तु तुङ्गं स्यात्तच्चांशं त्र्यंशमेव वा ।
स्थितस्य लूपमूलं तु तदूर्ध्वं नासिकन्धरम् ॥ १६ ॥
तदर्धं च त्रिभागं च कन्धरं मूर्ध्नि तत्समम् ।
तत्सत्यं मैलितुङ्गं स्याद्युक्ता तत्पलिकान्तकम् ॥ १७ ॥
मध्यनास्यर्धमानेन सान्तरं नासमानकम् ।
नासिकाप्राननं सर्वं किम्बरीसमलङ्कृतम् ॥ १८ ॥
नासितारं(र)त्रिभागैकं कुचितारमिति स्मृतम् ।
भूतादिचित्रसंयुक्तं सर्वालङ्कारसंयुतम् ॥ १९ ॥
लम्बनोर्ध्वे दलं ब[न्]ध्वा सर्वालङ्कारसंयुतम् ।
आग्रायं(भ्रमाङ्गं) पत्रसंयुक्तं मूर्ध्वा(र्ध्वाः) पट्टैरलङ्कृतम् ॥ २० ॥
करोटोवदलङ्कृत्य लम्बने पत्रसंयुक्तम् ।
पलिके लम्बनं तत्र श्रेण्या दर्पणवृत्तवत् ॥ २१ ॥
युक्त्यालङ्कारसंयुक्तं शेषं प्रागुक्तवन्नयेत् ।
ग्रोवोच्चं [तु] त्रिभागे(गमे)कं वेदिकोदयमीरितम् ॥ २२ ॥
तत्समं तु गलाग्रे तु चोत्तरादीनि वर्गकम् ।
तदेवावलम्बनं तत्र गोपानादिश्रियान्वितम् ॥ २३ ॥
वेदितुङ्गसमं कुर्यात्क्षुद्रनासिविभूषितम् ।
अथवा तुङ्गमाने तु दशभागं विभाजिते ॥ २४ ॥
सपादार्शमधिष्ठानं तदर्द्धयं पादतुङ्गकम् ।
तदर्धं प्रस्तरोच्चं तु चाश्विन्यंशो[न] गलोदयम् ॥ २५ ॥
v3.c24.s19.3
तत्समं शिखरोत्तुङ्गं तदधं वच्छ्रितोदयम् ।
प्रस्तरोपरि चैकांशं (शेन) कर्णहर्म्यं प्रकल्पयेत् ॥ २६ ॥
तदूर्ध्वं पूर्ववन्मोषं युक्त्या चांशेन योजयेत् ।
कर्णहर्म्यस्य विस्तारं षड्भागं(गे) तु विभाजिते ॥ २७ ॥
एकांशं कर्णकूटं स्यान्मध्ये शाला द्वयांशकम् ।
एकं वा द्वित्रिदण्डेन निर्गमं भद्रमेव वा ॥ २८ ॥
शालाकूटद्वयोर्मध्ये चैकह्वारा सपञ्जरम् (रा) ।
तत्तङ्क (ङ्गं) सप्तभागं स्यादेकांशं वेदिकोदयम् ॥ २९ ॥
तदूर्ध्वं त्र्यर्धभागेन गलं त्र्यंशकं मस्तकम् ।
तदधं स्तूपिकान्तुङ्गं कर्णहर्म्यमिति स्मृतम् ॥ ३० ॥*
तदेवाधिष्ठानसंयुक्तं कर्णहर्म्यं विना तथा ।
तदूर्ध्वं वेदिकांशेन कर्णकम्पाब्जकम्पयुक् ॥ ३१ ॥
अथवा वेदिकात्तुङ्ग (ङ्गं) शेषं भागमिहोच्यते ।
तदेव वेदिकांशेन नवभाग (गे) विभाजिते ॥ ३२ ॥
द्विभागं वाजनं मूले चोध्वं कर्णं गुणांशकम् ।
तदूर्ध्वं कम्पमेकांशं दल (लं) द्वयंशेन वाजनम् ॥ ३३ ॥
वेदितारं चतुर्भागं मध्यकोष्ठे शिवांणकम् ।
नासिकायुक्तकोष्ठं वा नासिकापञ्जरान्वितम् ॥ ३४ ॥
शेषं प्रागुक्तवत्कुर्यात्सर्वालङ्कारसंयुतम् ।
अथवा हर्म्यतुङ्गे तु द्वादशांशं विभाजिते ॥ ३५ ॥
सार्धतुङ्गमधिष्ठानं पाददीर्घ (दैर्घ्यं) गुहांशकम् ।
तदर्धं प्रस्तरोत्सेधं ग्रीवांशं तु गुहांशकम् ॥ ३६ ॥
शिखरोचं द्विभागं स्यात्स्तूपिकाग्रं शिवांणकम् ।
प्रस्तरोर्ध्वं द्विभागेन चान्तरं प्रस्तरन्वितम् ॥ ३७ ॥
उत्सेधदशभागे तु वेदितुङ्गं शिवांशकम् ।
पादतुङ्गं गुहांशं स्यात्त्रिपादांशक(कं) मञ्च (स्त) कम् ॥ ३८ ॥
वेदिकार्धं तु (स) पादांशं कन्धरोच्चं शिवांशकम् ।
शिरस्तुङ्गा(ङ्गम) ध्विनोभागो चोर्ध्वं कुम्भं शिवांशकम् ॥ ३९ ॥
v3.c24.s19.4
तदूर्ध्वं ग्रीवमंशेन पूर्ववत्समलङ्कृतम् ।
अथवा मनुभागं तु हर्म्यतुङ्गं (ङ्ग्रे) विभाजते ॥ ४० ॥
सत्रिपादमधिष्ठानं तदूर्ध्वं चाङ्घ्रि भाजिते(तम्) ।
तदर्थं प्रस्तरोत्सेधं युगांशांघ्रि (शं ग्रोव) तुङ्गकम् ॥ ४१ ॥
तदर्धं शिखरोत्तुङ्गं तदूर्ध्वं स्तूपिकमंशकम् ।
ग्रोवमञ्जोर्ध्वमंशेन यथेष्टाधिष्ठानसंयुतम् ॥ ४२ ॥
तदूर्ध्वं च द्विभागेन कुर्याद्धर्म्यादिमण्डितम् ।
शेषं च कन्धरं प्रोक्तं पूर्ववत्समलङ्कृतम् ॥ ४३ ॥
अथवा हर्म्यतुङ्गे तु षोडशांशं विभाजिते ।
अधिष्ठानं द्विभागं स्यात्पादतुङ्गं युगांशकम् ॥ ४४ ॥
प्रस्तरं चाश्विनीभागं चोर्ध्वं भागं विशेषतः ।
मनु (मञ्च) भागं (गो) युगांशं स्यात्प्रस्तरं च द्विभागिकम् ॥ ४५ ॥
तत्समं ग्रीवतुङ्गं स्याद्युगांशं शे(शि) खरोदयम् ।
तदर्धं स्तूपिकोत्तुङ्गं चाटवर्गमिति (मतः) स्मृतम् ॥ ४६ ॥
मूलहर्म्यविशाले तु चाष्टभागं विभाजिते ।
षड्भागमूर्ध्वतले कुर्यात्तद्विस्तारमिति स्मृतम् ॥ ४७ ॥
ऊर्ध्वोङ्गं पूर्व(हर्म्य) वत्कुर्यात्सर्वालङ्कारसंयुतम् ।
तदेवाष्टांशकं चोर्ध्वं पादतुङ्गं द्वयंशकम् ॥ ४८ ॥
तदर्धं मञ्चतुङ्गं स्यात्तत्समं कन्घरोदयः ।
द्वयर्थाशं शिखरोत्तुङ्गं चाप्यर्धांशं शिरे (र उ) दयः ॥ ४९ ॥
ऊर्ध्वं पादोदये बन्धुभागमेकांश (शं) वेदिकम् ।
शेषं पूर्ववत्कुर्यादष्टवर्गविदो विदुः ॥ ५० ॥
वेदवृद्धाष्टभागं स्याज्जन्मादिस्तूपिकान्तकम् ।
अधिष्ठान (नं) युगांशं स्यात्पादा (दम) धिक(कं) पाल (लि) कांशकम् ॥ ५१ ॥
प्रस्तरोच्चं युगांशं स्यादूर्ध्वं पादं शरांशकम् ।
तदूर्ध्वं द्वयंरा(शं) मञ्चं स्याद्वेधिकोशं शिवांशकम् ॥ ५२ ॥
ग्रोवतुङ्गं द्विभागं स्याच्छिखरोच्चं वेदभागिकम् ।
स्तूपिकोशं द्विभागं स्यात्कुर्याद्धर्म्यादिमण्डितम् ॥ ५३ ॥
v3.c24.s19.5
एतदष्टविधं प्रोक्तमेकभूमिविधानकं ।
विमानं सम[ञ्ज]र्यं हर्म्यं चालयं वा चाधिष्ण्यकम् ॥ ५४ ॥
प्रासादं भवनं क्षेत्रं मन्दिरा(रमा)यतनं तथा ।
वेश्म च गृहमावासं चयं धाम सनातनम् ॥ ५५ ॥
वासं गेहमागारं वा सदनं वसितं गृहम् ।
निलयं तल(लं) कोष्ठं च स्नानं पर्यायवाचकम् ॥ ५६ ॥
विमानस्य तु विस्तारे त्रिभागं चांशकं गृहम् ।
हर्म्यंतारे तु भूतांशं त्रियं(त्र्यां)शं गर्भगृहकम् ॥ ५७ ॥
गेहतारे तु सप्तांशं नालीतारं युगांशकम् ।
नालीतारं युगांशं स्याच्छ्ररांशं गृहविस्तृतम् ॥ ५८ ॥
चयं(य)व्यासं च रुद्रांशं षड्भागं कोष्ठविस्तृतम् ।
सैकार्कभागविस्तारे सप्तांशे नालिके गृहम् ॥ ५९ ॥
पञ्चादशांशकं तारे साष्टांशं गर्भगृहकम् ।
विस्तारे च द्विभागे तु चैकांशं तुङ्गविस्तृतम् ॥ ६० ॥
शेषं कुड्य(ड्य) विशालं स्याद्गर्भेगेहावृतं तथा ।
प्रदातल(भाह्लादश)भूरपि कोस्तास(कोष्ठं) वित्तलन्तं मूलगृहम् ॥ ६१ ॥
अत्र(न्तः)गृह(हं) विमानविधिमाश्राप(मशेषं) गृहं नालिकाविक(दिक्) ।
विमानमिदमुक्त(क्तं) स्याद् यमागतारानां(यागतं) गृहस्तारम् ॥ ६२ ॥
यत्तत्कुड्य(ड्य)विशालं तु द्वादशांश(शे) विभाजिते ।
पञ्चांशं तु बहिःकुर्यात् सा(चा)न्त(न्तः) सप्तांशकं त्यजेत् ॥ ६३ ॥
तद्द्वयोर्मध्यदेशे तु (च) वारया(द्वारपाद)स्य मध्यमे ।
एतद्बहि(हिः) स्थितस्तम्भं तद्गृहन्तरितो(तमु)च्यते ॥ ६४ ॥
तत्पादमध्यमोध्यान्तमङ्गुक्ता(न्तं क्षुद्रा)दङ्घ्रिमध्यमम् ।
एवं तु मध्यमं श्रेष्ठं हर्म्ये द्वारस्य योगतः(योग्यकम्) ॥ ६५ ॥
क्षुद्रहर्म्ये तु युक्त्या च कुर्यात्तु शिल्प्य(ल्प)वित्तमः ।
अन्तस्तम्भ(म्भं) विना वापि कुर्याद्द्वारान्तु पादकम् ॥ ६६ ॥
विभजेत्सच्चपष्टाष्ट(ष्ट)हर्म्यंपादोदयं तथा ।
तत्तदेकांशहीनं स्याच्छुद्धद्वारोदयं भवेत् ॥ ६७ ॥
v3.c24.s19.6
तदधं द्वारविस्तारं देवानां हर्म्यमध्यमे ।
नागानन्दाङ्गुला (क्ष्मा) रभ्य द्वयङ्गुलविवर्धनात् ॥ ६८ ॥
एकहस्तावसानान्तं कन्यसादि त्रयं त्रयम् ।
द्वारपादस्य विस्तारं क्षुद्रहर्म्येषु योग्यकम् ॥ ६९ ॥
चतुर्विंशाङ्गुलं पञ्चविंशत्यङ्गुलमारभेत् ।
द्वयङ्गुलेन वृद्धिः स्यात्कन्यसादीनि पूर्ववत् ॥ ७० ॥
चत्वारिंशाङ्गुलं चैकचत्वारिंशाङ्गुलान्तकम् ।
मध्यमं मानहर्म्ये तु द्वारपादस्य विस्तृतम् ॥ ७१ ॥
द्विहस्तं तु समारभ्य त्रित्र्यङ्गुलविवर्धनात् ।
तन्त्रिहस्तावि(व)धियां वृद्धमथादि त्रयं त्रयम् ॥ ७२ ॥
एवं तु द्वारपादं स्याद्विस्तारं चोत्तमालये ।
केचित्तु द्वारपादोच्चवशाद्वाराराद्विविस्तृतम् ॥ ७३ ॥
द्विहस्तं तु विशालं स्यात्समं वा बहु(ह)लं भवेत् ।
तदर्थं वा त्रयांशैकं द्वारपादस्य तत्तथा ॥ ७४ ॥
द्वारायामसमं(म)पादौ चोध्वंयो(योः) पट्टिकाघनौ ।
सहैव विस्तृतं दीर्घ पाद्युक्त्या प्रयोजयेत् ॥ ७५ ॥
देवभूसुरभूपानां सामन्तप्रमुखादीनाम् ।
योग्यं(ग्यं) कवाटयुग्मं च श्रेष्ठं मध्यं च हर्म्यके ॥ ७६ ॥
अन्तर्वापि बहिर्वापि घाटनं कीलसंयुतम् ।
द्वारपादं च बाह्ये तु सर्वालङ्कारसंयुतम् ॥ ७७ ॥
द्वारेोध्वं द्वारपार्श्वे तु कुर्यात्तु द्वारदेवताम् ।
कवाटद्वारदेवानां सृष्टदोषं समावहेत् ॥ ७८ ॥
तस्मात्परिहरेच्छिल्पी चान्तस्तम्भं प्रयोजयेत् ।
जन्मादि पट्टिकान्तं च पञ्चांशं तु यथाविधि ॥ ७९ ॥
देवतास्थापनं कुर्याद्वाह्ये नालं प्रयोजयेत् ।
मसूराणां स्थाने स्यादन(न्व)र्थ विप्रनालिका ॥ ८० ॥
विस्तारायाममुत्सेधं लम्बनं वक्ष्यतेऽधुना ।
अष्ट(ष्टं) पङ्क्तिस्तथा भानुर्मेनु(मुः) षोडशकाङ्गुलम् ॥ ८१ ॥
v3.c24.s19.7
पञ्चधा क(र)चितं नालं विस्तारं परिकीर्तितम् ।
वितस्त्याः स्तूपि(सार्धद्वि)हस्तान्तं पञ्चधायाममीरितम् ॥ ८२ ॥
v3.c24.s19.8
एतत्क्षुद्रा(द्र)विमाने तु मध्यदेशस्य वामके ।
पूर्वदिक्पूचोत्तरे वापि युक्त्वा नालं प्रयोजयेत् ॥ ८३ ॥
v3.c24.s19.9
यथापूर्वोक्तमाने तु तदूर्ध्वे च गुणांशिकम् ।
मध्यमे चोत्तमे हर्म्ये दन्तनालं प्रमाणकम् ॥ ८४ ॥
v3.c24.s19.10
यथाधिष्ठानतुङ्गं तत्समं नालोदयं भवेत् ।
उत्सेधे च त्रिमागैकं तस्याधो चाप्रलम्बनम् ॥ ८५ ॥
v3.c24.s19.11
नालमूलविशाले तु भूतभागं विभाजिते ।
त्र्यंशं चाग्रविस्तारं लम्बनं पञ्चभागिकम् ॥ ८६ ॥
v3.c24.s19.12
कुड्मलोष्ठ(ष्ठं) त्रिभागं स्यात्पद्ममेकेन कारयेत् ।
तदूर्ध्वे वाजनं चांशं युक्त्वा च समलङ्कृतम् ॥ ८७ ॥
v3.c24.s19.13
धराय(द्वारं वा) वाथ वृत्तं वा भद्रत(द्वा) रं स्वलङ्कृतम् ।
एकद्वित्र्यङ्गुलं वापि चतुष्पञ्चाङ्गुलेन वा ॥ ८८ ॥
v3.c24.s19.14
मूलविस्तारमुत्सेधं युक्त्वाच्छिद्रं प्रकल्पयेत् ।
मूलपादत्र्यंशेन चाग्रे छिद्रं (द्र) विशालकम् ॥ ८९ ॥
v3.c24.s19.15
मूले तुङ्गं स(सिंह)वक्त्रं स्यात्तदा स्यान्निर्गमोदयम् ।
रम्भानार्लं प्रसूनाभं कुर्यात्तच्छिल्पि(ल्प)वित्तमः ॥ ९० ॥
v3.c24.s19.16
शीर्षं च शिखा ग्रीवं वृत्तं स्याद्वैजयन्तिकम् ।
तदेव कर्णकूटं चेद्वा भोगमिति कीर्तितम् ॥ ९१ ॥
v3.c24.s19.17
तन्मध्ये भद्रसंयुक्तं श्रीविशालमिति स्मृतम् ।
तदष्टाश्रं शीर्षं स्यात्स्वस्तिबन्धमिति स्मृतम् ॥ ९२ ॥
v3.c24.s19.18
तदेवं चतुरश्रं चेच्छिखरांक श्रीकरं भवेत् ।
तद्द्वाश्रवृत्तसंयुक्तं हस्तिपृष्ठमुदाहृतम् ॥ ९३ ॥
v3.c24.s19.19
शिरो ग्रीवे षडश्रं स्यात्स्कन्धतारमिहोच्यते ।
मध्ये भद्र(द्रे) विशालं स्यात्कर्णकूटोपसंयुतम् ॥ ९४ ॥
v3.c24.s19.20
तच्छालाभद्रनास्यङ्गं शिरो ग्रीवं तु वृत्तकम् ।
अथवा चतुरश्रं स्यात्केसरं तत्प्रकथ्यते ॥ ९५ ॥
v3.c24.s19.21
तदेवाकारमायामं तत्तन्नाम्ना प्रकीर्तितम् ॥ ९६ ॥
एवं प्रोक्तं हर्म्यके मध्यभद्रं
@H 192
शालाकोष्ठं दिग्विदिकू कूटयुक्ता(क्तम्) ।
हारा भ्रान्ता नासिका पञ्जराढ्यं
कुर्यात्सर्वं वेदिकाभद्रयुक्तम् ॥ ९७ ॥
हर्म्यतारसमं चतुरंशकं तन्त्रिपादमर्धमथापि च
@H 196
कुड्यतारसमादि यथाक्रमम् ।
कन्यसं त्रिविधं मुखमण्डपम्
तन्मुखमण्डप(पं) मुख्यविमाने ॥ ९८ ॥
मध्यविमानस(स्य) मण्डपपार्श्वे
@H 200
अम्बरं दण्डमथ द्वयदण्डम् ।
हर्म्यवशादुपवेशनयुक्तम्
यत्तत्क्षुद्रविमाने तन्मुखे मण्डपं स्यात् ॥ ९९ ॥
तद्द्वयोर्मध्यदेशे चैकाद्य(ध्य)र्धं हस्तविस्तारम् ।
@H 204
अथवा त्रिपादहस्तं स्यात्प्रासादार्ध(थं) मथ कथितम् ॥ १०० ॥
एकद्वित्रिदण्डं वा चान्तरालस्य वेशनं स्यात् ।
कुम्भे स्तम्भसहितनासिका पञ्जरयुक्तमेव वा ॥ १०१ ॥
शालापञ्जरयुक्तं तोरणैः समलङ्कृत्य युक्त्या ।
@H 208
एकद्वित्रिचतुर्हस्त्या स्तम्भयुक्तमिति कथितम् ॥ १०२ ॥
अथवा द्वारयुक्तं पूर्ववद्द्वारमानेन कुर्यात् ।
तद्द्वारमुखसोपानं हस्तिहस्तेन भूषितं सम्यक् ॥ १०३ ॥
युग्ममण्डपदेशे तत्सममूलेव(एव)मलङ्कृत्य ।
@H 212
अन्यमण्डपदेशे यन्मानोरम्यमलङ्कृत्य(त्यम्) ॥ १०४ ॥
मण्डपे प्रस्तरस्योर्ध्वं कर्याद्वेद्यादिमण्डितम् ।
यत्तन्नामान्तरालं चोर्ध्वं नासिकाजालपञ्जरं वापि ॥ १०५ ॥
तत्तन्मण्डपमध्ये प्रासादवशाद्द्वारं संकलप्यम् ।
@H 216
पूर्ववत्कवाटयुक्तं मण्डपस्वान्तः सकीलयुक्तम् ॥ १०६ ॥
v3.c24.s19.22
तत्तद्विद्धिर्द्दारदेवा[न्] न्यसेदेतद्द्वारपार्श्वयोश्चैव ।
नन्दिमहाकालादौ चोक्तवद् द्वारदेवा[न्] न्यसेत् ॥ १०७ ॥
मण्डपे(पस्य) दक्षिणे कोष्ठे नृत्तयुक्तै(क्तमे)व विनायकमुक्तम् ।
मण्डपसौम्यकोष्ठे स्थानदुर्गायुक् स्थापयेत्सत्यम् ॥ १०८ ॥
प्रासाददक्षिणे मध्यकोष्ठे व्यानदक्षिणामूर्तिम् ।
तदूर्ध्वे ग्रीवकोष्ठे गेयमूर्तिं वीरभद्रं वापि ॥ १०९ ॥
पश्चिममूलतले मध्ये कोष्ठे लिङ्गोद्भूतम् ।
अथवाऽर्धनारीश्वर (रं) स्थानकं विष्णुं स्थापयेद्वापि ॥ ११० ॥
तदूर्ध्वे ग्रीवकोष्ठे तु केशवन्नृसिंहाव्युता[ना]सीनम(नान्) ।
सौम्यके मूलतले कोष्ठे स्थानकं चतुर्मुखं स्यात् ॥ १११ ॥
तदूर्ध्वे ग्रीवकोष्ठेऽथ नदं(नारदं) कमलं(लजं) वापि ।
पूर्वे गळदेशे मध्यकोष्ठे गुहं गजारूढम् ॥ ११२ ॥
निशापतिं वाथ सर्वेषा तत्तद्देव्या सहासन [स्थ] मुक्तम् ।
इन्द्रस्य दक्षिणद्वारात्परितः षोडशविग्रहं कुर्यात् ॥ ११३ ॥
प्रस्तरोपरि [तं] देशे कोष्ठे कोष्ठे स्थापयेद्वृषभम् ।
कर्णैकमैकमूर्ध्वं च द्वयं वाथ वृषमंसंयुक्तम् ॥ ११४ ॥
एकानेककलं सर्वमेतद्देवान्पुराणसंयुक्तम् ।
एवं शिवहर्म्याणां योग्यं विनोद्धमन्यदेवानाम् ॥ ११५ ॥
तत्तद्वारमुक्तं ए(चै)कानेकतलोपेतं सर्वम् ।
अथवा विष्णुविमाने [ति] देवस्थापनं वक्ष्यामः ॥ ११६ ॥
द्वारे चण्डप्रचण्डौ च मण्डपवाम्ये वनित(ता)म् ।
प्रागुक्तवत्सौम्यदेशे विमाने पूर्ववद्देवतां वापि ॥ ११७ ॥
हरिं वा गरुडं वा कुर्यात्पुरतो(पूर्वो) क्तचतुष्कोणे ।
शयनं वासनं सिहं तार्क्ष्यं कृताञ्जल्यासनयुक्तम् ॥ ११८ ॥
पोत्री नृसिंहमथ केशवमश्वत्थं(त्थं) कर्णात्पूर्वादिदिक्षु चतुर्षु ।
पूर्वकान्त(प्रोक्त) हर्म्ये (र्म्यं) कभूगिगलदेशमिति प्रतिष्ठां कुर्यात् ॥ ११९ ॥
v3.c24.s19.23
दुर्गंाम(उत्तरा)भिमुखासनमच्युतं वा
प्राच्यां दिशि द्वितलहर्म्ये गलप्रदेशे ।
श्रीमाधवं नरहरिं कृत(तं) दक्षिणे च
नारायणं चाथ पश्चिमदिक् प्रदेशे ॥ १२-० ॥
v3.c24.s19.24
क्रो(क्रो) ष्टुं चोत्तर(रे) जनार्दन(नं) हर्म्यके तत् ।
त्रितले पूर्वदिग्देशे प्रोवे तल्लोधरं न्यसेत् ॥ १२१ ॥
उत्तरे वासुदेवं चाथवान्यसंकर्षणं स्मृतम् ।
अनिरुद्धं पश्चिमदेशे चोर्ध्वे वा तदधो(दूर्ध्व)तले ॥ १२२ ॥
v3.c24.s19.25
एवं तु चोक्तवत्कृत्वा बौद्धादिजिनकालयम् ।
तत्तद्विमानयो(स्या) र्ध्वे तु तत्तद्देवान्न्यसेत्क्रमात् ॥ १२३ ॥
अन्येषां देवदेवीनां विमाने तत्तद्विधानतः ।
सर्वेषां हर्म्यके कुर्यात्तत्तद्वाहनमीरितम् ॥ १२४ ॥
v3.c24.s19.26
शयनं वासनं वापि प्रस्तरस्योपरि न्यसेत् ।
एवं तत्प्रोक्तवत्कुर्याद्धर्म्यं तत्सम्पदां(दास्)पदम् ॥ १२५ ॥
एकभूमिं कुर्यादधिकं चोपपीठ(ठं) रुचिरार्थं संयुतम् ।
सोपपीठभवनेर्युतं तु वा कारयेत्तु कथितं पुरातनैः ॥ १२६ ॥
v3.c24.s19.27
एवं सर्वहर्म्यालंङ्कारयुक्त्या
नानापादैर्वेदिकान्ता(धा)रमञ्चम् ॥
हीनाधिक्यं चेद्दिग्नाशनं तस्मात्
कुर्यात्सर्वं चोक्तवत्सम्पदा(द) र्थम् ॥ १२७ ॥
v3.c24.s19.28
इति मानहारे वास्तुशास्त्रे एकभूमिविधानं नाम एकोनविंशोऽध्यायः ॥
Linked texts (1)
- Mānasāra — Sanskrit