Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s19.21
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s19.21
- Language
- English
v3.c24.s19.21
तदेवाकारमायामं तत्तन्नाम्ना प्रकीर्तितम् ॥ ९६ ॥
एवं प्रोक्तं हर्म्यके मध्यभद्रं
@H 192
शालाकोष्ठं दिग्विदिकू कूटयुक्ता(क्तम्) ।
हारा भ्रान्ता नासिका पञ्जराढ्यं
कुर्यात्सर्वं वेदिकाभद्रयुक्तम् ॥ ९७ ॥
हर्म्यतारसमं चतुरंशकं तन्त्रिपादमर्धमथापि च
@H 196
कुड्यतारसमादि यथाक्रमम् ।
कन्यसं त्रिविधं मुखमण्डपम्
तन्मुखमण्डप(पं) मुख्यविमाने ॥ ९८ ॥
मध्यविमानस(स्य) मण्डपपार्श्वे
@H 200
अम्बरं दण्डमथ द्वयदण्डम् ।
हर्म्यवशादुपवेशनयुक्तम्
यत्तत्क्षुद्रविमाने तन्मुखे मण्डपं स्यात् ॥ ९९ ॥
तद्द्वयोर्मध्यदेशे चैकाद्य(ध्य)र्धं हस्तविस्तारम् ।
@H 204
अथवा त्रिपादहस्तं स्यात्प्रासादार्ध(थं) मथ कथितम् ॥ १०० ॥
एकद्वित्रिदण्डं वा चान्तरालस्य वेशनं स्यात् ।
कुम्भे स्तम्भसहितनासिका पञ्जरयुक्तमेव वा ॥ १०१ ॥
शालापञ्जरयुक्तं तोरणैः समलङ्कृत्य युक्त्या ।
@H 208
एकद्वित्रिचतुर्हस्त्या स्तम्भयुक्तमिति कथितम् ॥ १०२ ॥
अथवा द्वारयुक्तं पूर्ववद्द्वारमानेन कुर्यात् ।
तद्द्वारमुखसोपानं हस्तिहस्तेन भूषितं सम्यक् ॥ १०३ ॥
युग्ममण्डपदेशे तत्सममूलेव(एव)मलङ्कृत्य ।
@H 212
अन्यमण्डपदेशे यन्मानोरम्यमलङ्कृत्य(त्यम्) ॥ १०४ ॥
मण्डपे प्रस्तरस्योर्ध्वं कर्याद्वेद्यादिमण्डितम् ।
यत्तन्नामान्तरालं चोर्ध्वं नासिकाजालपञ्जरं वापि ॥ १०५ ॥
तत्तन्मण्डपमध्ये प्रासादवशाद्द्वारं संकलप्यम् ।
@H 216
पूर्ववत्कवाटयुक्तं मण्डपस्वान्तः सकीलयुक्तम् ॥ १०६ ॥