Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s19.22
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s19.22
- Language
- English
v3.c24.s19.22
तत्तद्विद्धिर्द्दारदेवा[न्] न्यसेदेतद्द्वारपार्श्वयोश्चैव ।
नन्दिमहाकालादौ चोक्तवद् द्वारदेवा[न्] न्यसेत् ॥ १०७ ॥
मण्डपे(पस्य) दक्षिणे कोष्ठे नृत्तयुक्तै(क्तमे)व विनायकमुक्तम् ।
मण्डपसौम्यकोष्ठे स्थानदुर्गायुक् स्थापयेत्सत्यम् ॥ १०८ ॥
प्रासाददक्षिणे मध्यकोष्ठे व्यानदक्षिणामूर्तिम् ।
तदूर्ध्वे ग्रीवकोष्ठे गेयमूर्तिं वीरभद्रं वापि ॥ १०९ ॥
पश्चिममूलतले मध्ये कोष्ठे लिङ्गोद्भूतम् ।
अथवाऽर्धनारीश्वर (रं) स्थानकं विष्णुं स्थापयेद्वापि ॥ ११० ॥
तदूर्ध्वे ग्रीवकोष्ठे तु केशवन्नृसिंहाव्युता[ना]सीनम(नान्) ।
सौम्यके मूलतले कोष्ठे स्थानकं चतुर्मुखं स्यात् ॥ १११ ॥
तदूर्ध्वे ग्रीवकोष्ठेऽथ नदं(नारदं) कमलं(लजं) वापि ।
पूर्वे गळदेशे मध्यकोष्ठे गुहं गजारूढम् ॥ ११२ ॥
निशापतिं वाथ सर्वेषा तत्तद्देव्या सहासन [स्थ] मुक्तम् ।
इन्द्रस्य दक्षिणद्वारात्परितः षोडशविग्रहं कुर्यात् ॥ ११३ ॥
प्रस्तरोपरि [तं] देशे कोष्ठे कोष्ठे स्थापयेद्वृषभम् ।
कर्णैकमैकमूर्ध्वं च द्वयं वाथ वृषमंसंयुक्तम् ॥ ११४ ॥
एकानेककलं सर्वमेतद्देवान्पुराणसंयुक्तम् ।
एवं शिवहर्म्याणां योग्यं विनोद्धमन्यदेवानाम् ॥ ११५ ॥
तत्तद्वारमुक्तं ए(चै)कानेकतलोपेतं सर्वम् ।
अथवा विष्णुविमाने [ति] देवस्थापनं वक्ष्यामः ॥ ११६ ॥
द्वारे चण्डप्रचण्डौ च मण्डपवाम्ये वनित(ता)म् ।
प्रागुक्तवत्सौम्यदेशे विमाने पूर्ववद्देवतां वापि ॥ ११७ ॥
हरिं वा गरुडं वा कुर्यात्पुरतो(पूर्वो) क्तचतुष्कोणे ।
शयनं वासनं सिहं तार्क्ष्यं कृताञ्जल्यासनयुक्तम् ॥ ११८ ॥
पोत्री नृसिंहमथ केशवमश्वत्थं(त्थं) कर्णात्पूर्वादिदिक्षु चतुर्षु ।
पूर्वकान्त(प्रोक्त) हर्म्ये (र्म्यं) कभूगिगलदेशमिति प्रतिष्ठां कुर्यात् ॥ ११९ ॥