Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s19.6

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s19.6

Language
English

v3.c24.s19.6

तदधं द्वारविस्तारं देवानां हर्म्यमध्यमे ।
नागानन्दाङ्गुला (क्ष्मा) रभ्य द्वयङ्गुलविवर्धनात् ॥ ६८ ॥
एकहस्तावसानान्तं कन्यसादि त्रयं त्रयम् ।
द्वारपादस्य विस्तारं क्षुद्रहर्म्येषु योग्यकम् ॥ ६९ ॥
चतुर्विंशाङ्गुलं पञ्चविंशत्यङ्गुलमारभेत् ।
द्वयङ्गुलेन वृद्धिः स्यात्कन्यसादीनि पूर्ववत् ॥ ७० ॥
चत्वारिंशाङ्गुलं चैकचत्वारिंशाङ्गुलान्तकम् ।
मध्यमं मानहर्म्ये तु द्वारपादस्य विस्तृतम् ॥ ७१ ॥
द्विहस्तं तु समारभ्य त्रित्र्यङ्गुलविवर्धनात् ।
तन्त्रिहस्तावि(व)धियां वृद्धमथादि त्रयं त्रयम् ॥ ७२ ॥
एवं तु द्वारपादं स्याद्विस्तारं चोत्तमालये ।
केचित्तु द्वारपादोच्चवशाद्वाराराद्विविस्तृतम् ॥ ७३ ॥
द्विहस्तं तु विशालं स्यात्समं वा बहु(ह)लं भवेत् ।
तदर्थं वा त्रयांशैकं द्वारपादस्य तत्तथा ॥ ७४ ॥
द्वारायामसमं(म)पादौ चोध्वंयो(योः) पट्टिकाघनौ ।
सहैव विस्तृतं दीर्घ पाद्युक्त्या प्रयोजयेत् ॥ ७५ ॥
देवभूसुरभूपानां सामन्तप्रमुखादीनाम् ।
योग्यं(ग्यं) कवाटयुग्मं च श्रेष्ठं मध्यं च हर्म्यके ॥ ७६ ॥
अन्तर्वापि बहिर्वापि घाटनं कीलसंयुतम् ।
द्वारपादं च बाह्ये तु सर्वालङ्कारसंयुतम् ॥ ७७ ॥
द्वारेोध्वं द्वारपार्श्वे तु कुर्यात्तु द्वारदेवताम् ।
कवाटद्वारदेवानां सृष्टदोषं समावहेत् ॥ ७८ ॥
तस्मात्परिहरेच्छिल्पी चान्तस्तम्भं प्रयोजयेत् ।
जन्मादि पट्टिकान्तं च पञ्चांशं तु यथाविधि ॥ ७९ ॥
देवतास्थापनं कुर्याद्वाह्ये नालं प्रयोजयेत् ।
मसूराणां स्थाने स्यादन(न्व)र्थ विप्रनालिका ॥ ८० ॥
विस्तारायाममुत्सेधं लम्बनं वक्ष्यतेऽधुना ।
अष्ट(ष्टं) पङ्क्तिस्तथा भानुर्मेनु(मुः) षोडशकाङ्गुलम् ॥ ८१ ॥

Linked texts (1)