Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s19.5

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s19.5

Language
English

v3.c24.s19.5

एतदष्टविधं प्रोक्तमेकभूमिविधानकं ।
विमानं सम[ञ्ज]र्यं हर्म्यं चालयं वा चाधिष्ण्यकम् ॥ ५४ ॥
प्रासादं भवनं क्षेत्रं मन्दिरा(रमा)यतनं तथा ।
वेश्म च गृहमावासं चयं धाम सनातनम् ॥ ५५ ॥
वासं गेहमागारं वा सदनं वसितं गृहम् ।
निलयं तल(लं) कोष्ठं च स्नानं पर्यायवाचकम् ॥ ५६ ॥
विमानस्य तु विस्तारे त्रिभागं चांशकं गृहम् ।
हर्म्यंतारे तु भूतांशं त्रियं(त्र्यां)शं गर्भगृहकम् ॥ ५७ ॥
गेहतारे तु सप्तांशं नालीतारं युगांशकम् ।
नालीतारं युगांशं स्याच्छ्ररांशं गृहविस्तृतम् ॥ ५८ ॥
चयं(य)व्यासं च रुद्रांशं षड्भागं कोष्ठविस्तृतम् ।
सैकार्कभागविस्तारे सप्तांशे नालिके गृहम् ॥ ५९ ॥
पञ्चादशांशकं तारे साष्टांशं गर्भगृहकम् ।
विस्तारे च द्विभागे तु चैकांशं तुङ्गविस्तृतम् ॥ ६० ॥
शेषं कुड्य(ड्य) विशालं स्याद्गर्भेगेहावृतं तथा ।
प्रदातल(भाह्लादश)भूरपि कोस्तास(कोष्ठं) वित्तलन्तं मूलगृहम् ॥ ६१ ॥
अत्र(न्तः)गृह(हं) विमानविधिमाश्राप(मशेषं) गृहं नालिकाविक(दिक्) ।
विमानमिदमुक्त(क्तं) स्याद् यमागतारानां(यागतं) गृहस्तारम् ॥ ६२ ॥
यत्तत्कुड्य(ड्य)विशालं तु द्वादशांश(शे) विभाजिते ।
पञ्चांशं तु बहिःकुर्यात् सा(चा)न्त(न्तः) सप्तांशकं त्यजेत् ॥ ६३ ॥
तद्द्वयोर्मध्यदेशे तु (च) वारया(द्वारपाद)स्य मध्यमे ।
एतद्बहि(हिः) स्थितस्तम्भं तद्गृहन्तरितो(तमु)च्यते ॥ ६४ ॥
तत्पादमध्यमोध्यान्तमङ्गुक्ता(न्तं क्षुद्रा)दङ्घ्रिमध्यमम् ।
एवं तु मध्यमं श्रेष्ठं हर्म्ये द्वारस्य योगतः(योग्यकम्) ॥ ६५ ॥
क्षुद्रहर्म्ये तु युक्त्या च कुर्यात्तु शिल्प्य(ल्प)वित्तमः ।
अन्तस्तम्भ(म्भं) विना वापि कुर्याद्द्वारान्तु पादकम् ॥ ६६ ॥
विभजेत्सच्चपष्टाष्ट(ष्ट)हर्म्यंपादोदयं तथा ।
तत्तदेकांशहीनं स्याच्छुद्धद्वारोदयं भवेत् ॥ ६७ ॥

Linked texts (1)