Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s22.1
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s22.1
- Language
- English
v3.c24.s22.1
चतुस्तलविधानस्य(नं च) लक्षणं वक्ष्यतेऽधुना ।
विस्तारोत्सेधभिन्नो(भक्ति)श्च पूर्ववत्परिकल्पयेत् ॥ १ ॥
तुङ्गे चैकोनविंशांशमल्य(ध्य)र्धांशं(शं) मसूरकम् ।
तद्द्वयं पादतुङ्गं स्यात्तदर्थं प्रस्तरोदयम् ॥ २ ॥
सत्रिपादं च (द्वि)भागं वा तदू(चो)र्ध्वे पादोदयं भवेत् ।
प्रस्तरोच्चं शिवांशं स्यात्सत्रिपादांशमङ्घ्रिकम् ॥ ३ ॥
ऊर्ध्वमञ्च(चं) त्रिपादं स्यात्तद्द्वयं चोर्ध्वपादकम् ।
सद्वर्धं प्रस्तरोत्सेधं वेदिका(म)र्थेन योजयेत् ॥ ४ ॥
शंशेन गलतुङ्गं स्यात्तद्द्वयं शिर(रस)स्तुङ्गकम् ।
तदर्थं स्तूपिकोत्तुङ्गं मूलतः परिकल्पयेत् ॥ ५ ॥
विष्णु कान्तमिति प्रोक्तं कर्णहर्म्यादिभूषितम् ।
चत्वारिंशद्(द्व)याधिक्यं भाग(गं) तुङ्गे विभाजिते ॥ ६ ॥
अधिष्ठानं त्रिभागं स्यात्तद्द्वयं पादतुङ्गकम् ।
प्रस्तरोच्चं गुणांशं स्यादूर्ध्वं पादं रसांशकम् ॥ ७ ॥
सार्धद्विभागमश्वं स्यात्सार्धवेदाङ्घ्रितुङ्गकम् ।
सद्वर्धं प्रस्तरोत्सेधं पादोने चतुरङ्घ्रिकम् ॥ ८ ॥
प्रस्तरं च त्रिभागं स्यात्तदर्थं वेदिकोन्नतम् ।
गलोच्चं तद्द्विभागं स्याद्युग्मांशं मस्तकोदयम् ॥ ६ ॥
द्वयांशं स्तूपिकोत्तुङ्गं तस्य मूले विशेषतः ।
विस्तारे भागिकार्येन चावृतालिन्दमेव च ॥ १० ॥
तद्वहिश्चैकभागेन मूलपादाम्रकान्तकम् ।
अधिष्ठानादिवर्गाख्यं कर्णहर्म्यादिमण्डितम् ॥ ११ ॥