Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s22.2

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s22.2

Language
English

v3.c24.s22.2

एतच्चतुर्मुखं प्रोक्तं सर्वालङ्कारसंयुतम् ।
पञ्चषट्त्रिंशदंशं स्यात्तुङ्गाधींशं(शं) मसूरकम् ॥ १२ ॥
पञ्चांशं पादतुङ्गं स्यात्तदर्धं प्रस्तरोदयम् ।
ऊर्ध्वे वेदांशकं पादं प्रस्तरं च द्विभागिकम् ॥ १३ ॥
सार्धन्वन्धां(न्बं)शपादोध्वं तदर्धं प्रस्तरोदयम् ।
तदूर्ध्वाङघि गुणांशं स्यादात्य(व्य)र्धं चोर्ध्वमञ्चकम् ॥ १४ ॥
वेदिकाचं शिवांशं स्यात्तदूद्वयं प्रोचतुङ्गकम् ।
शिरोर्षं (खरं) च युगांशं स्याच्छेषांशं तच्छिरोदयम् ॥ १५ ॥
मूले तु पूर्ववत्कुर्याच्चतुर्द्वारसमन्वितम् ।
एवं सदाशिवं प्रोक्तं सर्वालङ्कारसंयुतम् ॥ १६ ॥
भागेन चतुरशीशं हर्म्यतुङ्गं विभाजिते ।
द्विभागाधिष्ठानतुङ्गं [स्यान्] तदूर्ध्वं पादतुङ्गकम् ॥ १७ ॥
युगांशं मञ्चतुङ्गं स्यादंशं चोर्ध्वमसूरकम् ।
तदूर्ध्वं पाद(दं) बन्धां(न्बं) शं गोपानांशं तदर्धकम् ॥ १८ ॥
तदूर्ध्वं कूटिमं चांशं सार्धपञ्चाङ्घितुङ्गकम् ।
सपादांशं(दं) प्रस्तरोत्तुङ्गं त्रिपादूर्ध्वे मसूरकम् ॥ १९ ॥
सपादाद्वि(शं) शकं चाङघ्रि चांशेन प्रस्तरोदयम् ।
तदर्धं वेदिकोत्तुङ्गं सार्धभागं गलोदयम् ॥ २० ॥
शिखरोचं गुणांशं स्यात्तदर्ध तच्छिरो(र व)दयम् ।
रुद्रकान्तमिति प्रोक्तं कण्ठैहर्म्यादिभूषितम् ॥ २१ ॥
तदेव(वं) हर्म्यमूले तु पूर्ववत्परिकल्पयेत् ।
तच्चतुर्द्वारसंयुक्तं चांशेन भद्रसंयुक्तम् ॥ २२ ॥
एवमीश्वरकान्तं स्य।दधिष्ठानादि (नं) क्रमाज्ञयेत् ।
तुङ्गे पञ्चदशांशं स्यादष्टांशक(कं) मसूरकम् ॥ २३ ॥
पादतुङ्गं षडंशं स्यात्प्रस्तरोचं गुणांशकम् ।
तत्समं चोर्ध्वमञ्चं स्यात्तदूर्ध्वं पञ्जरांशकम् ॥ २४ ॥
तदर्धं प्रस्तरोत्सेधमूर्ध्वमञ्चं द्विभागिकम् ।
वेदिकोच्चं शिवांशं स्यात्सार्धद्वि(शं)शं गलोदयम् ॥ २५ ॥