Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s22.4
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s22.4
- Language
- English
v3.c24.s22.4
अथवा द्वि(अं)शमाश्रित्य लिङ्गं (स्यालिन्दं) कुर्याद्विचक्षणः ।
तदूर्ध्वं विस्तृता(तं) शाले द्वि(अं)शेनावृत(तं) पूर्ववत् ॥ ४० ॥ 80
तस्यान्तरुश्रोक्तवत्कुर्याद्भागमेवर(म)लङ्कृतम् ।
एकेन कर्णाहर्म्यादिमण्डितं चावृतं न्यसेत् ॥ ४१ ॥
भागेन परितोऽलिन्दं चोर्ध्वं तदू(त्त)जलस्थलम् ।
तत्तद्बाह्येऽपि सर्वाङ्गं कर्णहर्म्यादिमण्डितम् ॥ ४२ ॥ 84
द्विभागेन तु मध्ये तु शालायामं तु विन्यसेत् ।
कूटानामेकभागेन शेषं हार(रं) सपञ्जरम् ॥ ४३ ॥
इन्द्रकान्तमिति प्रोक्तं क्षुद्र(द्रे) मध्ये च मुख्यके ।
तन्मुखे मण्डपं युक्तं तदुचित्तो मण्डपं स्यात् ॥ ४४ ॥ 88
प्राग्दिशि सोपानसभ्यानामूर्ध्ववासनराननम् ।
सालामूलस्य तन्मध्ये चोर्ध्वं तत्र समायुतम् ॥ ४५ ॥
शेषं पूर्ववदुद्दिष्टं चाष्टधा विधमीरितम् ।
क्षुद्रं मध्यं मुखं (ख्यं) च कुर्याद्धर्म्यं सर्वदेवता(ना)नाम ॥ ४६ ॥ 92
अन्येषामुत्तमानं युक्त्या कुर्यात्पुरातनैः कथितम् ।
नानाचित्रानपादैश्च वल्लभीश्च बहुविधैः [युक्तम् ] ॥ ४७ ॥
कूटनीडैश्च शाले(लाभिश्च भद्रैर्शा(र)ष्टपादगर्भबहुतारैः ।
क्षुद्रैश्च नासागरीर्नानापक्षवेदिकोरश्चमहानासीश्च वातायनैः ॥ ४८ ॥ 96
कोष्ठैर्विद्याधराद्यैर्गर्भाधिपतिसुरान्नृपगं कुर्व(रू)ते स्म ॥ ४६ ॥
क्षुद्रमन्यमथ मुख्य(ख्यं) भौमके
रूढविष्णुजिनकादिहर्म्यके ।
दक्षिणमूर्तिनरसिंहमूर्तिस्त्वारि
मूर्तिपुरतोक्तदेवानाम् ॥ ५० ॥ 100
एवं मूर्ति दक्षिणादिक्रमेण
एकानैकभौमतलस्थलादीन् ।
कुर्यात्सर्वं प्रोक्तदेशे पतित्वाद्
युक्त्या धीमान् देवतां विन्यसेत्तत् ॥ ५१ ॥ 104