Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s22.3

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s22.3

Language
English

v3.c24.s22.3

युगांशं चोर्ध्वपादं च द्व्यंशेन प्रस्तरोदयम् ।
तदूर्ध्वं त्वर्घमञ्चं स्यात्सार्धन्वन्धा(न्व्यं)शकाङ्घ्रिकम् ॥ २६ ॥
तदर्धं प्रस्तरोत्सेधं पादभागोर्ध्वमञ्चकम् ।
वेदिकांशं शिवांशं स्यात्सार्धद्वि(द्व्यं)शं गलोदयम् ॥ २७ ॥
मस्तकांच शर्रांशं स्यात्तूर्ध्वं कुम्भोदयं भवेत् ।
मञ्चकान्तमिति प्रोक्तं कर्णहर्म्यादिमण्डितम् ॥ २८ ॥
तदूर्ध्वे च विमानं च वेदिका वेदिकं तथा (कान्तकम्) ।
सर्वालङ्कारसंयुक्तं शेषं पूर्ववदाचरेत् ॥ २९ ॥
तुङ्गं षड्विंशमंशेन चात्य(ध्य) र्धांशमसूरकम् ।
रुद्रात्(द्व्यंशं) पादतुङ्गं स्यात्तदर्धं प्रस्तरोदयम् ॥ ३० ॥
सपादांशमधिष्ठानं द्व्यर्धांशमङ्घ्रितुङ्गकम् ।
तदर्धं प्रस्तरोत्सेधं तदूर्ध्वेऽशं मसूरकम् ॥ ३१ ॥
पादतुङ्गं द्विभागं स्यान्मञ्चतुङ्गं शिवांशकम् ।
पादोनद्वि(द्व्यं) शपादं स्यात्तदर्धं प्रस्तरोदयम् ॥ ३२ ॥
सपादांशाङ्घ्रितुङ्गं स्यात्तदर्धं प्रस्तरोदयम् ।
तदूर्ध्वे पादमेकांशं सा(चा)र्धांशं प्रस्तरोदयम् ॥ ३३ ॥
तत्समं वेदितुङ्गं स्याद्ग्रीवातुङ्गं शिवांशकम् ।
शिखरांश(षं) द्विभागं स्यात्तदूर्ध्वं वस्तूषिकोदयम् ॥ ३४ ॥
मूले च मध्यमे चाम्रे देवतास्थापनं भवेत् ।
तदूर्ध्वे शिखराकारं कल्पयेत्तु चतुस्स्थ(स्त)ले ॥ ३५ ॥
युक्तं विस्तार(रं) तन्(द्) बाह्ये वेदांशावृत(तं) मूलके ।
विस्तृतार्धं समं वापि यथायुक्तिवशान्यसेत् ॥ ३६ ॥
अधिष्ठानं च पादं च प्रस्तरं च त्रिवर्गि(र्गं)कम् ।
शालाकूटं च हारं च युक्त्वा सत्रैव योजयेत् ॥ ३७ ॥
सर्वालङ्कारसंयुक्तं मूले प्रासादतो न्यसेत् ।
तदूर्ध्वे द्व्यंशमाश्रित्य कर्णहर्म्यादिमण्डितम् ॥ ३८ ॥
अथवा विस्तृतार्धेन प्राकाराकृतिरा(ला चा)वृतम् ।
एकेन कर्णहर्म्यादि वस्यान्तर्ज्वलत्क(स्य) स्थलम् ॥ ३६ ॥