Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s29.1

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s29.1

Language
English

v3.c24.s29.1

एकादशतलं सम्यग्(विधि) लक्षणं वक्ष्यतेऽधुना ।
शम्भुकमीशकान्तं च चक्राख्यं यमकान्तकम् ॥ १ ॥
वज्रकान्ता(न्तम)र्ककान्तं च [चङ्]क(क)माढ्यर्यनामकम्(कं स्यात्) ।
रुद्रहर्म्ये तले तारे चैकोनविशदंशकम् ॥ २ ॥
कूटानां च द्विभागं स्यान्महाशाला नवांशकम्(का) ।
अनुशाला युगांशं स्याद्वारा च द्विद्विभागिकम् ॥ ३ ॥
महाशाला च(या) मध्ये तु भद्रशालैः(ला) शरांशकम् ।
शम्भुकान्तमिति प्रोक्तं सर्वालङ्कारसंयुतम् ॥ ४ ॥
तदेव नासिकामध्ये तु द्विभागं भद्रसंयुतम् ।
ईशकान्तमिति प्रोक्तं क्षुद्रहर्म्यादिमंो(चे)रितम् ॥ ५ ॥
मध्यमेकादशतले त्रिंशाद्भागविशालकम् ।
महाशाला दशांशं स्यान्मध्यभद्रं शरांशकम् ॥ ६ ॥
तत्पार्श्वे एकैकभागेन कूटं द्वारा सपञ्जरम् ।
तदेव वेदभागेन भद्रशाला च मध्यमे ॥ ७ ॥
शेषं प्रागुक्तवत्कुर्याच्चन्द्रकान्तमिति स्मृतम् ।
तदेव कूर्टे(टमे)कभागं स्यादनुशाला पञ्चभागिकम् ॥ ८ ॥
त्रिपादं भद्रसंयुक्तं तन्त्रिभागैकभागिकम् ।
यमकान्तमिति प्रोक्तं सर्वालङ्कारसंयुतम् ॥ ९ ॥
श्रेष्ठहर्म्यविशालेतु चैकविंशति भाजिते ।
द्विद्विभागेन कूटं स्याद्दारं च द्विद्विभागतः ॥ १० ॥
द्वारा च तद्द्वयोर्मध्ये चानुशाला शरांशकम् ।
तन्मध्ये कूर्म(वह्नि)भागेन भद्रं कुर्याद्द्विचक्षुषः ॥ ११ ॥