Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s29.2
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s29.2
- Language
- English
v3.c24.s29.2
महाशालानवशिने मध्ये भद्रं शरांशकम् ।
तन्मध्ये भद्रशाला च वन्ध(न्धु)भागेन योजयेत् ॥ १२ ॥
एवं तु वज्रकान्तं स्यादर्ककान्तमिहोच्यते ।
तदेव शालाप्रान्ते तु पार्श्वे चैकेन सौष्ठिकम् ॥ १३ ॥
तद्द्वयोरन्तरे देशे तत्समं क्षुद्रहारयोः ।
पूर्ववत्कूटविस्तारं शेषं द्वारं सपञ्जरम् ॥ १४ ॥
तन्मध्ये तु त्रिभागेन क्षुद्रशालाविशालत:(ता) ।
तत्पार्श्वे त्रित्रिभागेन द्वारमध्ये सभद्रकम् ॥ १५ ॥
क्षुद्रशालात्रिभागेन मध्यभद्रं समन्वितम् ।
क्षुद्रहारा च सर्वेषां नासिकापञ्जरान्वितम्(ता) ॥ १६ ॥
मध्ये मध्ये महानासि नेत्रशाला च पार्श्वयोः ।
सर्वालङ्कारसंयुक्तं षड्विधं परिकीर्तितम् ॥ १७ ॥
शेषभागं तु सर्वेषां युक्त्या तत्रैव योजयेत् ।
एवं विस्तारगण्यं स्यात्तुङ्गगण्यमिहोच्यते ॥ १८ ॥
जन्मादिस्तूपिपर्यन्तं (चो)क्कतसंग्रहं विदुः ।
एकादशांशभागेन दशतोदयाधिकम् ॥ १९ ॥
तदेव सार्धबन्धां(न्ध्यं)शं मसूरकोत्तुङ्गमिष्यते ।
समांशं पाददीर्घं(दैर्घ्यं) स्यात्तदर्धं प्रस्तरोदयम् ॥ २० ॥
शेषं प्रागुक्तवद्रूप्यमेकादशतलोदये ।
तत्रोर्ध्वोर्ध्वतले सर्वं(र्वे) कर्णहर्म्यादिमण्डितम् ॥ २१ ॥
एकभाग(गे) द्विभागं वा परितोऽलिन्दमिष्यते ।
नानाधिष्ठानसंयुक्तं नानापादैरलङ्कृतम् ॥ २२ ॥
शालाकूटैश्च हारैश्च उ(चो)क्तवत्समलङ्कृतम् ।
हारान्तरे तु कूटशाला च म्रैवदेशोक्तदेवतान् ॥ २३ ॥
अनुशालाष्टदिक्पालांस्तुरुद्वाहनसंयुतम् ।
यक्षविद्याधरादीनां गरुडादीनि विन्यसेत् ॥ २४ ॥
गणाधिपगणैश्चैव सर्वहर्म्येषु निक्षिपेत् ॥ २५ ॥