Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s30.8
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s30.8
- Language
- English
v3.c24.s30.8
सार्धद्विहस्तमारभ्य षट्षडङ्गुलवर्धनात् ।
सार्धवेदकरान्तं च फ(ल) लमेकं तदायति (तिः) ॥ ६४ ॥
एकहस्तं समारभ्य षट्षडङ्गुलवर्धनात् ।
तन्त्रिहस्तावसाने स्याच्च(दच)लसोपानविस्तृतम् ॥ ६५ ॥
द्विहस्तं तु समारभ्य चतुर्हस्तावसानकम् ।
त्रिहस्तादिपञ्चहस्तान्तं षट्षडङ्गुलवर्धनात् ॥ ६६ ॥
एतद्वचलसोपानं विस्तारं नवधा भवेत् ।
जन्मादिस्तूपिपर्यन्तं कुर्यात्तुङ्गं हि योजयेत् ॥ ६७ ॥
लुपमाने(नमु)क्तवत्कुर्यात्सोपानायाममुह्यतम् ।
अद्रिसोपानदेशे तु दीर्घं(दैर्घ्यं)मानं यथेष्टकम् ॥ ६८ ॥
विस्तारं पूर्ववत्कुर्यादचलं चोक्तवद्भवेत् ।
परितः सोपानविस्तारं तटाकाद्याकारतन्(र्) तथा ॥ ६६ ॥
परितः सर्वसोपानं कुर्यात्प्रागुक्तवर्जयेत् ।
पट्टिकात्रयमारभ्य वर्धयेद्द्विद्विपट्टिका(काम्) ॥ ७० ॥
त्रयोविंशच्छ्रतान्त(न्तं) स्याद्देवानामिति कथ्यते ।
पट्टमद्रिमार्गपर्यन्तं तिर्यक् चोर्ध्वोर्ध्वं(र्ध्वं) चोक्तवत् ॥ ७१ ॥
मानुषाणां तु सोपानं पट्टिकायुग्मसंयुतम् ।
त्रिचतुष्पञ्चषण्मात्रं चलं सोपानपादके ॥ ७२ ॥
तद्धनं च विशालं तु समं वा पादमाधिकम् ।
अर्धाधिकं तु पादोनद्विगुणस्(यं) त्रिगुणं ततः ॥ ७३ ॥
दण्डद्वयसमायुक्तं चित्र(च्छिद्र)युक्तं (क्ता) तु पट्टिकाः ।
एकद्वित्र्यङ्गुलं वापि पट्टिकाघनमेव च ॥ ७४ ॥
द्वित्रिवेदशराङ्गुल्यं षट्सप्ताङ्गुलमेव वा ।
अष्टनन्ददशाङ्गुल्यं पट्टिकाविस्तृतं भवेत् ॥ ७५ ॥
एवं तु चलसोपानमचलं तत्रवच्यते ।
पञ्चषडङ्गुला(लमा)रभ्य द्व्यङ्गुलविवर्धनात् ॥ ७६ ॥