Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s30.7

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s30.7

Language
English

v3.c24.s30.7

यत्र देशे तु सोपाने तत्र दोषो न विद्यते ।
प्रमुखे मुखसोपानं न कुर्याच्छिल्पि(ल्पि)वित्तमः ॥ ५१ ॥
अपरे पार्श्वयोर्द्वारे भद्रहीनत्रयं तु चेत् ।
तत्पूर्वेके तु सोपानं कुर्यात्सम्पत्प्रदायकम् ॥ ५२ ॥
प्रपाङ्गे प्रमुखे भद्रे सोपाने पूर्वपार्श्वयोः ।
कुर्यात्तु तन्त्रविच्छिल्पी चोक्तमेवं पुरातनैः ॥ ५३ ॥
तैव(ति)लानामिति प्रोक्तं कुर्यात्सोपानमुह्वताम् ।
नराणां सर्वहर्म्येषु वक्ष्ये सोपानलक्षणम् ॥ ५४ ॥
तपस्यादिद्विजातीनां वर्णानां च विशेषतः ।
देवानामुक्तवत्कुर्याद्गेहं सर्वेषु योजयेत् ॥ ५५ ॥
द्विजानां भूपतीनां च सर्वेषां भद्रदेशके ।
पार्श्वे सोपानसंयुक्तं तत्पूर्वे वाथ प्रकल्पयेत् ॥ ५६ ॥
अलिन्दयुक्तं तद्वारे वामे सोपानसंयुतम् ।
विनालिन्दप्रदेशे तु प्रमुखे सोपानमेव च ॥ ५७ ॥
वैश्यानां शुद्रजातीनां सोपानं वक्ष्यतेऽधुना ।
वक्षद्वारानिदिमद्राणां युक्त्या सोपानसंयुतम् ॥ ५८ ॥
गोपुराणां तु तत्पार्श्वे सोपानं लक्षणान्वितम् ।
भद्रदेशे समारोह(ह्यं) यत्र तत्रैव कारयेत् ॥ ५९ ॥
वापीकूपतटाके वा परितः सोपानसंयुतम् ।
चतुर्दिक्षु चतुष्कोणे चान्तरालेऽथवा पुनः ॥ ६० ॥
एवमेवं यथादेशे भद्रसोपानमेव वा ।
तत्रैव श्रेष्ठदिग्देशे कुलद्वारं प्रकल्पयेत् ॥ ६१ ॥
तत्पूर्वे च द्विपार्श्वे [च] कुर्यात्सोपानमुक्तवत् ।
अचलं च इ(त्वे)ति प्रोक्तं चलं स्थाप्यं यथेष्टकम् ॥ ६२ ॥
द्वादशाङ्गुलमारभ्य त्रित्र्यङ्गुलविवर्धनात् ।
सार्धहस्तावसाने स्यान्नवधा विस्तृ(स्तृ)तं भवेत् ॥ ६३ ॥