Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s32.2
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s32.2
- Language
- English
v3.c24.s32.2
प्रथमं तु महापीठं द्वितीयं चण्डितं पदम् ।
तृतीयं भद्रसंयुक्तं ततः शालावहिस्तथा ॥ १२ ॥
चतुर्थं सुप्रतीकान्तं पञ्चमं चे(च)न्द्रकान्तकम् ।
एतच्छन्दं प्रकर्तव्यं विकल्पं तदिहोच्यते ॥ १३ ॥
छन्दप्राकारविस्तारे सार्धार्धेन कराधिकम् ।
प्रथमात्पञ्चमानं स्यात्सार्धं युग्मकरान्तकम् ॥ १४ ॥
एवं विकल्पमानं स्यात्पञ्चशाला प्रकीर्तिताः ।
तदेव पञ्चशालानां षडङ्गुलविवर्धनात् ॥ १५ ॥
सप्तहस्ता(पादा)वसानं स्यात्प्रथमात्पञ्चमानकम् ।
एवमाभास(सं) कर्तव्यं हर्म्यपादं तु वर्धनात् ॥ १६ ॥
केचिच्छन्दकमाने तु त्रित्रिहस्तविवर्धनात् ।
प्रथमात्पञ्चमानं स्यात्पञ्चा(चा)शत्करान्तकम् ॥ १७ ॥
एतत्क्षुद्रविमाने तु सा(शा)लाच्छन्दविमानकम् ।
केवलहस्तमानेन जातिप्राकार(रं) मानयेत् ॥ १८ ॥
त्रिहस्तेनादिशालादि द्विद्विहस्तविवर्धनात् ।
प्रत्येकं पञ्चशालानां पञ्चपञ्चप्रमाणकम् ॥ १९ ॥
क्षुद्रल्पमध्यमुख्यानां जातिसा(शा)लां प्रकल्पयेत् ।
प्रासादार्धविशालेन मध्यमुख्यांश(स्याल्प)मानके ॥ २० ॥
सा(शा)लानां पञ्चधाद्यन्तं मानयेत्पूर्ववद्भवेत् ।
हर्म्यपादस्य वाह्यात्तु सालं(शाला)कुड्यावसानकम् ॥ २१ ॥
अन्तर्वापि वहिर्वापि कुड्य(ड्य)मध्यावसानकम् ।
उपपीठं चाह्रिर्कं वा[पि] हर्म्यपादं तु(दस्य) निर्गमम् ॥ २२ ॥
तत्कुड्यवेदिकान्तर्वा सालं प्रागुक्तमानकम् ।
हर्म्यसा(स्या)र्घपृथु (घ्रांवृत)मानं यद्वास्त(स्त्वा)य(या)मतत्समम् ॥ २३ ॥
तच्चतुर्भागिकैकेन वर्धयेत्सन्मुखायतम् ।
विस्तारात्पञ्चधायामं पञ्चधा विसृता(विपुला)न्तकम् ॥ २४ ॥
पञ्चसा(शा)लामुखायामं प्रत्येकं पञ्चधा ततः ।
एकैकं विंशदायामं पञ्चविंश(शाला)मुखायतम् ॥ २५ ॥