Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s32.1
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s32.1
- Language
- English
v3.c24.s32.1
बन्जा(स्य)र्थं परिवारार्थं शोभार्थं रक्षणार्थकम् ।
पञ्चप्राकारहर्म्याणामधुना वक्ष्यते क्रमात् ॥ १ ॥
जात्यादिभेदहर्म्याणां तन्मानेन तु विन्यसेत् ।
जातिप्राकारसर्वेषां हस्तमानेन योजयेत् ॥ २ ॥
छन्दा(जात्या)दि सर्वेषा(सा)लानां प्रासादांशेन मानयेत् ।
जातीनां जातिसालानां म्यंतरं विभाजितं ॥ ३ ॥
तदूर्ध्वे वेदिकादीनां ग्रीवमूर्ध्नि शिखान्तकम् ।
समकन्धरवृद्धिः स्यात्पञ्चसालावसानकम् ॥ ४ ॥
छन्दादिपञ्चसाला(लां) च छन्दाद्यंशेन मानयेत् ।
जातिप्रासादविस्तारे विन्यसेत्सकलं पदम् ॥ ५ ॥
आदिशालां ततः कुर्यादन्तर्मण्डलगोरितम् ।
द्वितीयमन्तहारा च मध्यहारा तृतीयकम् ॥ ६ ॥
प्राकारं सचतुर्थं च कथितं तन्मयाधि(दि)कम् ।
ततः पञ्चमशा(सा)ला च महामर्याद(दा)मीरितम् ॥ ७ ॥
पञ्चशालामिवि प्रोक्तं तन्त्रविद्भिः पुरातनैः ।
तत्पीठपा(प)दविन्यास(सश)चादिशालविशालके ॥ ८ ॥
तथा द्वितीयशाले तु खण्डितं(ल) पदं विन्यसेत् ।
तत्तत्कुर्यात्तु शालायां तृतीये चोभयचण्डितम् ॥ ६ ॥
सुसंहितपदं मध्ये मर्यादाया विशालकं ।
महामर्यादाविस्तारं पदमीश्वरकान्तकम् ॥ १० ॥
एवं तु जातिशाला(लां) च कुर्याद्धर्म्यवशात्सुधीः ।
वे(पे)चकं मूलहर्म्ये तु छन्दादीनां प्रवक्ष्यते ॥ ११ ॥