Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s33.3
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s33.3
- Language
- English
v3.c24.s33.3
सोमे च विधां संस्थाप्य मनोजस्यालयं तु वा ।
मृगे च स्नापनार्थं च गन्धद्रव्यादिमण्डपम् ॥ २६ ॥
अदिते दक्षिणामूर्तिमुदिते चान्तदानक(व)म् ।
ईशे च स्थापयेदेकं रुद्रमूर्तेस्तवालयम् ॥ २७ ॥
अथवा यज्ञशालां च स्थापयेद् भोगमण्डपम् ।
पर्जन्ये मज्जनाद्यर्थाय जलपूरितमण्डपम् ॥ २८ ॥
अथवा रुद्रदेवस्य यागमण्डपमेव च ।
जयन्ते भास्करं स्थाप्य चेशे पाशुपतं तथा ॥ २६ ॥
अथवा कामकोष्ठे स्यादालयं कल्पयेत्सुधीः ।
द्वात्रिंशन्मूर्तिरेवं स्यात्कुर्यात्तु परिवारकम् ॥ ३० ॥
तृतीये सौम्यभागे तु पानीयस्य जलं क्षिपेत् ।
भृशे वाथ महेन्द्रे वा भक्तरूपं प्रतिष्ठयेत् ॥ ३१ ॥
छत्रं च चामराकारं जयन्तस्य पदे तथा ।
तण्डुलं(ल)मण्डपं याम्ये पावके पचनालयम् ॥ ३२ ॥
गृहक्षते धान्यशाला ई(चे)शे च यागमण्डपम् ।
गन्धर्वे भृङ्गराजे च स्थापकान्वद्या(नामाल)यम् [स्नान्] ॥ ३३ ॥
पूषे च वितथे चैवमालये परिवारकान् ।
सोमे भल्लाट(टे) मुख्ये च कल्पयेत्कोशमण्डपम् ॥ ३४ ॥
पुष्यदन्ते सुकरी च(मृगे चैव) शस्त्रमण्डपसंयुतम् ।
वरुणे वासुरे वापि वस्तुनिश्क्षेपमण्डपम् ॥ ३५ ॥
नागे वापि मृगे वापि देवभूषणमण्डपम् ।
आ(अ)दितौ चोदितौ वापि शयनार्थं च मण्डपम् ॥ ३६ ॥
आस्थानमण्डपं चैव चतुर्दिक्षु विदिक्षु च ।
स्नापनार्थमण्डपं चापि स्नातनमण्डपमेव च ॥ ३७॥
गृहक्षते यमे वापि वाहनस्थानमण्डपम् ।
मर्यादि(दा)भित्तिकस्यान्तं मण्डपं वा नरालयम् ॥ ३८ ॥
शृङ्गालिङ्गं तथा स्थाप्य यथा दिक्षु विदिक्षु च ।
अनलानिलकोणे वा स्थापत्यालयमेव च ॥ ३९॥
Linked texts (10)
- Jātaka — Pāli
- Kauṭilīya Arthaśāstra — Kauṭilya, Sanskrit
- Aṣṭādhyāyī — Pāṇini, Sanskrit
- Mānava Dharmaśāstra — Manu & Bhṛgu, Sanskrit
- Mahābhārata — Vyāsa, Sanskrit
- Ṛgvedasaṃhitā — Sanskrit
- Śatapathabrāhmaṇa — Yājñavalkya & Śāṇḍilya (Vedic teacher), Sanskrit
- Paharpur Charter of the Time of Budhagupta — Sanskrit
- Corpus Inscriptionum Indicarum
- Nasik cave inscription (No. 16, N. 5) (ed. Hultzsch 1906) — Prakrit