Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s33.4
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s33.4
- Language
- English
v3.c24.s33.4
सत्यके वा चान्तरिक्षे वाद्यरूरालयं भवेत् ।
पूषे(ष्णि) च वितथे चापि नाट्या(ट्य)कारालयं भवेत् ॥ ४० ॥
गृहक्षते सृप(श)आ(स्या)न्तं गणिकादीनां तथालयम् ।
नैर्ऋ(ऋ)त्यादावरुणान्तं च गणिकालयायं भवेत् ॥ ४१ ॥
वरुणाद्वायुपर्यन्तमारामकारकालयम् ।
वायुकोणादिसोमान्तं नित्यकर्मकरालयम् ॥ ४२ ॥
सोमादीशानपर्यन्तं गान्धर्वालयमेव च ।
ईशादेरिन्द्रपर्यन्तं संडि(संगी)तार्थं च मण्डपम् ॥ ४३ ॥
तद्वाह्ये तत्प्रदेशे वा गोशालां परिकल्पयेत् ।
ईशस्थाने तु कूपं स्यात्तटाकं वा प्रकल्पयेत् ॥ ४४ ॥
चतुष्कोणे तपस्वी(स्वि)नां सत्रावासमठं भवेत् ।
समीपे वीरभद्राणां गृहश्रेणीं च कल्पयेत् ॥ ४५ ॥
महामर्यादि(दा) देशे तु वर्णानां वासयोग्यकम् ।
पश्चिमे विप्रसङ्घ(ङ्घः) स्याद्दक्षिणे क्षत्रियस्य च ॥ ४६ ॥
उत्तरे वैश्यसङ्घः(ङ्घः) स्यात्पूर्वे तु शूद्रसञ्ज्ञकम् ।
तद्वाह्ये सर्वजातीनामालयं कल्पयेत्सुधीः ॥ ४७ ॥
द्वारस्य वामभागे तु गजाश्वादेस्तथालयम् ।
उदिते चेशकोणे तु कल्पयेद्धर्ममण्डपम् ॥ ४८ ॥
वायुकोणे तु बाह्ये वा पुष्पोद्यानं तु कल्पयेत् ।
प्राकारद्वार(रे) सर्वेषां कल्पयेद् वृषमालयम् ॥ ४९ ॥
वृषमस्योपरि भागे तु कल्पयेद् बलिपीठकम् ।
गोपुरस्य बहिर्वापि स्थापयेद् बलिपीठकम् ॥ ५० ॥
प्रासाद(दाद्)दण्डमानेन चैकं वा द्वित्रिदण्डकम् ।
गोपुराद् बलिपीठान्तं सान्तरं मानयेत्सुधीः ॥ ५१ ॥
एकद्वित्रिचतुष्पञ्चहस्तं पीठविशालकम् ।
प्रासादार्थं त्रिभागैकं पञ्चभागत्रिभागिकम् ॥ ५२ ॥
अथवा द्वित्रिभागं स्यात्पीठविस्तारमेव च ।
पीठतारसमोच्चं वा पादाद्यधिकमेव च ॥ ५३ ॥