Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s34.1

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s34.1

Language
English

v3.c24.s34.1

तैव(ति)लानां नृपाणां च गोपुराणां च लक्षणम् ।
मानानां सार(रं) संगृह्य शास्त्रे संक्षेपतः क्रमात् ॥ १ ॥
तैव(ति)लस्योक्तमानं यन्मानुषाणां न कारयेत् ।
नराणां योग्यमानं यत्तैव(ति)लानां तु योग्यकम् ॥ २ ॥
क्षुद्रे [च] क्षुद्रमानो(नमु)क्तं मुख्ये मुख्यं तु मानकम् ।
अज्ञानाद्विपरीतं चेत्स्थाननाशं धनक्षयम् ॥ ३ ॥
तस्मात्तु गोपुरैर्मा(रमा)नं परित्यज्यो(गृह्यो)क्तवत्कुरु ।
आद्यके द्वारशोभं तु द्वारशाला द्वितीयके ॥ ४ ॥
द्वारप्रासाद(दो) मध्ये च द्वारहर्म्यं मयाधिके ।
महामर्यादि(दादि)कुड्ये [च] महागॊपुरमीरितम् ॥ ५ ॥
एवं तु कारयेच्छिल्पी सालानां द्वारके तथा ।
त्रिपञ्चसप्तकरान्तादेकादशकरं तु वा ॥ ६ ॥
एवं तु द्वारशोभस्य विशालं पञ्चधा स्मृतम् ।
पञ्चारत्नि समारभ्य त्रयोदशकरान्तकम् ॥ ७ ॥
द्वारशालाविशालं च पञ्चधा परिकीर्तितम् ।
सप्तहस्तं समारभ्य पञ्चत्रिंशाकरान्तकम् ॥ ८ ॥
द्वारप्रासादविस्तारं पञ्चभेदविदो विदुः ।
नवहस्तं समारभ्य द्विद्विहस्तविवर्धनात् ॥ ९ ॥
सप्ता(प्र)दशकरान्तं स्याद् द्वारहर्म्यविशालता ।
एकादशकरा(रमा)रभ्य नवपङ्किकरान्तकम् ॥ १० ॥
पञ्चधा विपुलं प्रोक्तं महागॊपुरमेव च ।
पादाधिकम(कं) तद्याव(दर्धं च) पादोनं तत्समाधिकम् ॥ ११ ॥