Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s34.2

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s34.2

Language
English

v3.c24.s34.2

विस्तारा[द्दा]यामा ते सर्वे गोपुराणां विशेषतः ।
अथवा द्विडस्तवृद्धि(द्विः) स्याच्चत्वारिंशत्करान्तकम् ॥ १२ ॥
त्रिगुणोपरिहस्तान्तं विंशदायाम(मः) शोभके ।
शालाविशालतामारभ्य द्विद्विहस्तविवर्धनात् ॥ १३ ॥
पञ्चाशत्करसीमान्तं पञ्चविंशतिमायतम् ।
द्वारप्रासादविस्तारात्पूर्ववद्धर्धयेत्क्रमात् ॥ १४ ॥
षष्ट्ठिहस्तावसानं स्यात्त्रिंशदायाम(मः) पूर्ववत् ।
द्विद्विहस्तविवृद्धेन(वर्धनेन) हस्तसप्ततिकान्तकम् ॥ १५ ॥
द्वारहर्म्यविशालोर्ध्वं पञ्चत्रिंशदायतम् ।
महागौपुरविस्तारं द्विद्विहस्तविवर्धनात् ॥ १६ ॥
अशीतिहस्तावसाने [च] चत्वारिंशदायतम् ।
अथवाऽङ्घ्रिमानेन वर्धमानायतं मतम् ॥ १७ ॥
विस्तारद्विगुणान्तं च ए(चै) कभागेनवर्धनात् ।
शोभादिगोपुरान्तस्य वारो भित्ति(भक्ति)वशो(शादु)च्यते ॥ १८ ॥
द्वित्रिवेदशरांशं च षड्भागं शोभविस्तृते(स्तारे) ।
पञ्चषट्सप्तभागं च अ(तु चा)ष्टनन्द(न्दं) विभाजिते ॥ १८ ॥
एवं तु द्वारशाले तु विस्तारे तत्रकल्पयेत् ।
सप्ताष्टनवभागं च षङ्गिरेकादशस्तथा ॥ २० ॥
द्वारप्रासादविस्तारे भागमेवं प्रकल्पयेत् ।
अष्टनन्दां(न्दन)शकांशं तु ए(वै)कादशार्कभागिकम् ॥ २१ ॥
एतेषां द्वारहर्म्ये तु विस्तारो(रं) युक्तितो न्यसेत् ।
नवषङ्गिसभागं तु सैकार्कमनुभागिकम् ॥ २२ ॥
महागौपुरविस्तारे भागमेवं प्रकल्पयेत् ।
तद्विस्तारार्धमुत्सेधं त्रिपादं तत्समं तु वा ॥ २३ ॥
एवं तु द्वारपादोच्चं जन्मपादाग्रसीमकम् ।
तदर्थं द्वारविस्तारं तद्विशालं तथोदय(बाष्टक)म् ॥ २४ ॥
सपादसार्धभागेन द्विगुणानां तु (पादूनं द्विगुणं) मानुषे ।
सर्वेषां द्वारतुङ्गे च विस्तारे च विशेषतः ॥ २५ ॥