Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s34.12
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s34.12
- Language
- English
v3.c24.s34.12
परितस्(तः) सार्धभागेन भित्तिविष्कम्भमानकम् ।
तदंशो(दर्धांशं) कूटशाला [दि] मण्डितं भित्तितो न्यसेत् ॥ १५२ ॥
तत्समं चान्तरालं स्यान्मध्यकोष्ठं गुणांशकम् ।
तस्मात्तु कूटयोर्मध्यं चान्तरालं प्रकल्पयेत् ॥ १५३ ॥
अन्तरालं विशेषेण पञ्जरादिविभूषितम् ।
एवं तु द्वितलं प्रोक्तं कारयेद् द्वारशालके ॥ १५४ ॥
त्रितले ताररन्धांशे गर्भगेहं गुणांशकम् ।
आवृत्तभित्तिरेकांशं तत्समांशेनाळिन्दकम् ॥ १५५ ॥
तद्बहिश्श्रावृतांशेन कूटकोष्ठादि पूर्ववत् ।
द्वारप्रासादमेवं तु द्वारहर्म्यो (म्येम) धुनेोच्यते ॥ १५६ ॥
विस्तारे दशभागे तु गर्भगेहं त्रियं(त्रयां) शकम् ।
तद्बाह्ये(ऽऽ)वृतभित्तिश्च सं(स्तु चा) शेनावृतलिन्द्र(वालिन्द) कम् ॥ १५७ ॥
अंशेन कर्णहर्म्यादि परितोऽशेन कूटकम् ।
मुख(ख्य)शालैस्तु(लं तु) भूतांश शेषं [तु] चान्तरालकम् ॥ १५८ ॥
एवं चतुस्तलं प्रोक्तं पञ्चभूमिरिहोच्यते ।
विस्तारे(रमे)कदशांशं तु नाळिगेहं गुणांशकम् ॥ १५९ ॥
तद्बहिर्द्द्यंशमेकेन पृथ्वा(थ्वी) कुड्यविशालकम् ।
तत्तद्बाह्यावृतांशेन कुर्यादालिन्द्र(दलिन्द)कं भवेत् ॥ १६० ॥
एकांशं कूटशालादि कर्णहर्म्यावृतं तथा ।
एकांशं कूटविस्तारं महाशाला त्रयां(पञ्चां) शकम् (का) ॥ १६१ ॥
एकैकं चान्तरालं स्यात्क्षुद्रशालैकभांगिकम् ।
विस्तारद्विगुणाभ्यैव भागमेकेन वर्धनात् ॥ १६२ ॥
यथेष्टा(ष्टमा) यवतारं (रे) सर्वे कूटकोष्ठादि विन्यसेत् ।
पादान्यान भद्रसंयुक्तं देशेषु पद(पादं) विन्यसेत् ॥ १६३ ॥
प्रधाने चोर्ध्वदेशे वा कुर्याद् दोषो न विद्यते ।
एकदण्डं द्विदण्डं वा त्रिदण्डं भद्रनिर्गमम् ॥ १६४ ॥
अन्येषां हर्म्यमानेन युक्त्या तत्रैव योजयेत् ।
एवं तद्धनमानो (नम्) लक्षणं वक्ष्यतेऽधुना ॥ १६५ ॥