Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s34.11
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s34.11
- Language
- English
v3.c24.s34.11
प्रस्तरं चैकभागं स्यात्तदर्थं वेदिकोदयम् ।
तद्द्वयं ग्रीवतुङ्गं स्याद् ग्रीवस्तुङ्गाद्वयं शिरः ॥ १३८ ॥ 276
एकांशं स्तूपिकोत्तुङ्गं शेषं पूर्ववदाचरेत् ।
जन्मादिस्तूपिकान्तं च चत्वारिंशा(शद)ष्टभागिकम् ॥ १३९ ॥
तद्भागोपानमर्धांशं प्रोव(सत्रि)पादाष्टकांशकम् ।
उपपीठमधिष्ठानं तुङ्गं सार्धद्वयांशकम् ॥ १४० ॥ 280
तद्द्वयं पादतुङ्गं स्यात्तदर्थं प्रस्तरोदयम् ।
सार्धवेदा(दम)ङ्घ्रितुङ्गं स्यात्सपादद्वांश(शं) मञ्चकम् ॥ १४१ ॥
पादाधिक्यं चतुर्भागं पाद(दं) मञ्च(ञ्चं) द्विभागिकम् ।
वेदांशं पादतुङ्गं च सत्रिपादांश(शं) मञ्चकम् ॥ १४२ ॥ 284
तदूर्ध्वे चरणोत्तुङ्गं सत्रिपादगुणांशकम् ।
प्रस्तरा(रम)त्य(ध्य)र्घभागं तु वेदिसुङ्गं त्रिपादकम् ॥ १४३ ॥
तद्द्वयं गलतुङ्गं स्याद् गुहांशं शिखरोदयम् ।
सार्धभागं शिखोतुङ्गं(ङ्ग)मेवं पञ्चतलं विदुः ॥ १४४ ॥ 288
शेषं च पूर्ववत्कुर्याद् द्वारशोभादि पञ्चधा ।
घने चाप्यघने चैव विन्यासमध वक्ष्यते ॥ १४५ ॥
विस्तारायाम(मं) शोभादि(दो) पूर्ववद् गोपुरान्तकम् ।
यन्मानं बहिरन्येन चूलिकामात्रसंमि(यु)तम् ॥ १४६ ॥ 292
एकं हस्तं समारभ्य षड्वडङ्गुलवर्धनात् ।
शोभादिगोपुरान्तायनिर्गमं(मः) पञ्चधा भवेत् ॥ १४७ ॥
अथवा भित्तिपादं(दात) स्याद् दण्डमानेन संयुतम् ।
एकदण्डं समारभ्य दशदण्डावसानकम् ॥ १४८ ॥ 296
यथा विमानसंयुक्तं तत्र दोषो न विद्यते ।
अज्ञान(नान्) मानविच्छेदं सर्वदोषकरं भवेत् ॥ १४९ ॥
तस्मात्परिहरेद्विद्वान्माननिर्गममेव च ।
यथातारे तु धातां(त्वां)शं गर्भगेहं गुहाशिकम् ॥ १५० ॥ 300
एकमा(का)वृतभित्ति(त्तिः) स्यादेवमेकतलं भवेत् ।
द्वितले तार(रं) सप्तांशं वेदांशं गर्भगेहकम् ॥ १५१ ॥