Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s34.21
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s34.21
- Language
- English
v3.c24.s34.21
त्रिचतुष्पञ्चषड्भागं सप्तांशं कुड्यविस्तारम् ।
शेषं तु नालगेहं तु पञ्चधा परिकीर्तितम् ॥ १८० ॥
भित्तिबाह्यांशकांशेन द्विभागं च तले तले ।
ललाटे भद्रमेकांशं विस्तारं निर्गमार्थकम् ॥ १८१ ॥
अन्तस्त्वलिन्द्र (न्द) कं वापि भित्तिकं वाङ्घ्रिकान्वितम् ।
तद्बहुबालिन्द्र (न्द) कं (के) युक्त्या जालकाना (कम) ङ्घ्रिकान्तरे ॥ १८२ ॥
घनं वाप्यधनं वापि भित्तिं कुर्याद् विचक्षणः ।
आयामे मध्यमे द्वारं भित्तिदेशे द्वयं न्यसेत् ॥ १८३ ॥
गेहं तद्ब्रह्मलाटे च व (तु चो) पपीठाकृतिस्(ति) वलम् ।
अथवा वप्रवद्युक्त्या यथेष्टमुत्सेध (धं) मानयेत् ॥ १८४ ॥
स्तम्भयुग्गोपुरं ज्ञात्वा विस्तारे चोत्तरान्तकम् ।
तन्त्रिभागद्विभागं वा भित्तिरे (मे) केन कारयेत् ॥ १८५ ॥
स्थापयेद् भागमेकं चेत्तत्सूत्राद्वहिराश्रितम् ।
अखो(न्तो) तरायते न्यस्य तिर्यक् तौलि प्रकल्पयेत् ॥ १८६ ॥
पादं वायते तौलि कुर्याद्युक्त्या विचक्षणः ।
तदूर्ध्वे जयन्तिकं कुर्यात्तत्तलच्छादनान्वितम् ॥ १८७ ॥
अथवा त्रिचतुर्भागं विस्तारायामकं तथा ।
भित्तितारार्धभागं तु शेषं तद्गेहमानकम् ॥ १८८ ॥
तत्समं परितोलिन्द्रं (न्दं) शेषं तत्पूर्ववद्भवेत् ।
अथवा चायतं मानमेकभागाधिकं तथा ॥ १८६ ॥
पूर्ववद् भित्तिविस्तारमेकांशामृतारिन्द्र(न्द)कम् ।
त्रिभाग(गं) मध्यभद्रं च शेषं पूर्ववदाचरेत् ॥ १६० ॥
चतुर्भागविशाले तु पञ्चभागायतं तथा ।
भागार्धं भित्तिविस्तारं शेषं गर्भगेहं भवेत् ॥ १६१ ॥
एकं च परितोद्वारं मध्यभद्रं त्रिभागिकम् ।
निर्गमं चैकभागेन तत्तद्रूभद्रं (द्रं) द्विभागिकम् ॥ १६२ ॥
एकांशं निर्गमोपेतं युक्त्या शेषं तु पूर्ववत् ।
चतुःपञ्चभागविस्तारमायामं प्रविधीयते ॥ १६३ ॥