Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s34.22

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s34.22

Language
English

v3.c24.s34.22

एकभागेन कुड्यं स्यान्मालिगेहं तु शेषकमू ।
एकभागावृतलिन्द्रं (न्दं) मध्यभद्रं युगांशकम् ॥ १९४ ॥
तदर्धं नेत्रभद्रं स्यात्तदर्धं भद्रनिर्गमम् ।
अष्टभागं तदायामं मध्ये भद्रं षडंशकम् ॥ १९५ ॥
शेषं तत्पूर्ववत्प्रोक्तं कुर्यात्तच्छिल्पि(ल्पि)वित्तमः ।
पञ्चषड्भागविस्तारे चायमं तद्विभाजिते ॥ १९६ ॥
नेत्रभद्रं (द्रं) द्विभागं तत् शे(च्छे)षांशं पूर्ववद् भवेत् ।
पञ्चभागविशाले तु सप्तभागं तदायते ॥ १९७ ॥
मध्यभद्रं तु भूतांशे (शं) विस्तारं चैकनिर्गमम् ।
अन्येषां पूर्ववत्कुर्यादधवांशाधिकायतम् ॥ १९८ ॥
षड्भागं भद्रविस्तारमेकभागेन निर्गमम् ।
शेषं पूर्ववदुद्दिष्टं तदर्धोशाधिकायतम् ॥ १९९ ॥
पञ्चांशं भद्रविस्तारं निर्गमं चैकभागिकम् ।
शेषं प्रागुक्तवत्कुर्यात्पङ्गिभागद्वयं (गायतं) तथा ॥ २०० ॥
षड्भागं मध्यभद्रं च अ(तु चा)न्येषां पूर्ववद् भवेत् ।
षडंशं भागमाधिक्यं विस्तारायामकं तथा ॥ २०१ ॥
एकांशं भित्तिविस्तारं परितः शेषं तु गेहकम् ।
एकभागावृतलिन्द्रं(न्दं) पञ्चांशं मध्यभद्रकम् ॥ २०२ ॥
नेत्रभद्रं चतुर्भागमेकांशं भद्रनिर्गमम् ।
एकभागाधिकायामं मध्यभद्रं षडंशकम् ॥ २०३ ॥
तस्मदाधिक्यभागं तु भूतांशं भद्रमीरितम् ।
आयामे दशभागे तु भद्रतारं षडंशकम् ॥ २०४ ॥
आयामे रुद्रभागे तु सप्तांशं भद्रविस्त (स्ता) रम् ।
द्वादशांशं तदायामे मध्यभद्रे गजांशकम् ॥ २०५ ॥
निर्गमं चैकभागं स्याच्छेषं प्रागुक्तवर्ध(न्न)येत् ।
एवं तद्द्वारशोभं स्यादेकभूमिरिति स्मृता ॥ २०६ ॥
विस्तारे पञ्चभागे तु ए(चै)कभागाधिकायतम् ।
त्रिचतुर्भागनालं स्याच्छेषं भित्तिविशालकम् ॥ २०७ ॥