Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s34.24

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s34.24

Language
English

v3.c24.s34.24

नवभागं तदायामे कोष्ठायामं शरांशकम् ।
त्रिभागं बाह्यभद्रं स्यान्निर्गमं चैकभागिकम् ॥ २२२ ॥
दशभागं तदायामे पूर्ववत्परिकल्पयेत् ।
एकादशांशकं कुर्यात्पञ्चांशं मध्यकोष्ठकम् ॥ २२३ ॥
द्वादशांशं तदायामे शालायामं षडंशकम् ।
मध्यं द्विभाग(गं) भद्रं स्यान्निर्गमं चैकभागिकम् ॥ २२४ ॥
द्वारस्य मध्यदेशे तु अ(चा)तुश्शाला विशालकम् ।
तत्पार्श्वद्वययो(योर) द्वारं नासिकापञ्जरान्वितम् ॥ २२५ ॥
शेषं तु पूर्ववत्कुर्यात्तद्युक्त्या तत्रैव योजयेत् ।
विस्तारे सप्तभागं तु वसुभागं तदायतम् ॥ २२६ ॥
भित्तिविस्तारमेकांशं परितः शेषा(षम)न्तरालि(ल)कम् ।
तत्तद्बाह्यावृतांशेन शेषमूह्यं विचक्षणैः ॥ २२७ ॥
नवभागं तदायामं दशभागमथापिवा ।
एकादशांशकं वापि विन्यसेच्चैव पूर्ववत् ॥ २२८ ॥
त्रयोदशांशमायामे मध्यशाला विशालयुक् ।
त्रिभागं चान्तरालं स्याच्चतुर्दशायतं तथा ॥ २२६ ॥
मध्यकोष्ठं तदष्टांशं शेषं प्रागुक्तवन्नयेत् ।
अथवा चाष्टभागं तु विस्तारं तु नवायतम् ॥ २३० ॥
द्विभागं भित्तिविस्तारं शेषं नाळिगृहं मतम् ।
तद्बाह्ये परितश्चांशं कर्णकूटाद्यमानकम् ॥ २३१ ॥
अथवा दशभागं स्यात्तदेकादशभागिकम् ।
द्वादशांशायतं वाथ त्रयोदशायतं ततः ॥ २३२ ॥
चतुर्दशायतं वापि पञ्चा(ञ्च)दशांशादीर्घकम् ।
मध्यकोष्ठं शरांशं स्यात्तत्समं चान्तरालकम् ॥ २३३ ॥
तस्य मध्ये विशेषेण त्रिभागं चातुशालकम् ।
एकं चाप्यर्धभागं वा मध्यकोष्ठन्तु(स्थ) निर्गमम् ॥ २३४ ॥
द्वादशभागं तदायामे मध्यकोष्ठं रसांशकम् ।
शेषं पूर्ववदुद्दिष्टं नवभागमथापि वा ॥ २३५ ॥

Linked texts (1)