Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s34.23
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s34.23
- Language
- English
v3.c24.s34.23
तद्बहिः परितोऽशेन कूटकोष्ठविशालकम् ।
एकांशं कर्णकूटं च हारतारं (रमे) कभागिकम् ॥ २०८ ॥
मध्यकोष्ठं त्रिभागं च युक्त्वा तत्रैव योजयेत् ।
एवं ललाटयोश्चैव दीर्घं (दैर्घ्यं) विन्यासमुच्यते ॥ २०९ ॥
कर्णकूटद्वयं चैव तद्भागद्वयमीरितम् ।
अन्तरालद्वयं पञ्च भागं कुर्याद् विचक्षणः ॥ २१० ॥
मध्यकोष्ठं चतुर्भागं निर्गमं च द्विभागिकम् ।
अथवात्य(ध्य) र्धभागं च सपादांशकमेव च ॥ २११ ॥
मध्यकोष्ठमिदं प्रोक्तं नेत्रदीर्घं द्वयं तथा ।
मध्यकोष्ठं चतुर्थं च कर्णकूटे चतुष्टयम् ॥ २१२ ॥
हारान्तराष्ट(ल)देशे तु तोरणायैर्विभूषितम् ।
अभ्रवंशाधिकायामं पूर्ववद् भित्तिविस्तृतम् ॥ २१३ ॥
मध्यभद्रोच्चभद्रं च त्रिभागे विस्तृतं भवेत् ।
निर्गमं चैकभागं स्याल्ललाटांशे तु पूर्ववत् ॥ २१४ ॥
तस्मादधिकांशायामं पूर्ववद् विस्तृतं भवेत् ।
मध्यभद्र(द्रं) युगांशं स्या(द्धा)रान्तर(रं) द्विभागिकम् ॥ २१५ ॥
मध्यकोष्ठं युगांशं स्यात्कुर्याच्छेषं तु पूर्ववत् ।
नवभागं तदायामे मध्यकोष्ठं शरांशकम् ॥ २१६ ॥
अथवा वेदभागं च आ(तु वा) यामे तत्प्रकल्पयेत् ।
मध्यकोष्ठं तु षड्भागं मध्यभद्रं द्विभागिकम् ॥ २१७ ॥
तदर्धं निर्गमे प्रोक्तमन्तरालं द्विभागिकम् ।
शेषं पूर्ववदुद्दिष्टमथवा रसभागिकम् ॥ २१८ ॥
विस्तारे सप्तभागं स्यादायामं च विशेषतः ।
एकांशं तद्वृतं भित्तिवारं शेषं च नालिका ॥ २१९ ॥
तद्वाह्ये परितश्चांशं कर्णकूटादिमानकम् ।
मध्यकोष्ठं द्विभागं स्यात्त्रिभागं चान्तरालकम् ॥ २२० ॥
आयामे मध्यकोष्ठं(भद्रं) च त्र्यंशं द्वारं द्विभागिकम् ।
अष्टांशं च तदायामं मध्यकोष्ठे युगांशकम् ॥ २२१ ॥