Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s34.33

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s34.33

Language
English

v3.c24.s34.33

अष्टभागं तु विस्तारमायामं तेन वर्धनात् ।
षोडशांशं यथा न्याय्यं पूर्ववद्विधिना चरेत् ॥ २५० ॥
नवांशं विस्तृता (तमा) रभ्य वसुपङ्क्त्यवसानकम् ।
आयाममिति हि प्रोक्तं विन्यासं पूर्ववद् भवेत् ॥ २५१ ॥
विशालं दशभागं द्वाविंश [द्] भागाबसानकम् ।
नवपङ्क्त्यंशो(शमे) कविंशांशं दीर्घविन्यासमुच्यते ॥ २५२ ॥
नन्दपङ्क्त्यंश (शं) विभजेच्चतुस्तले तु त्रिवर्गकम् ।
षट्सप्ताष्टभागं वा नवार्धं वार्धरुद्रकम् ॥ २५३ ॥
भानु सैकार्कभागं तु मध्यकोष्ठविशालकम् ।
शेषं चान्तरालं च द्विभागं कर्णकूटकम् ॥ २५४ ॥
मध्यशाला विशेषेण पञ्च षट् सप्तकं भवेत् ।
द्विभागं वा त्रिभागं वा शालामध्ये तु भद्रकम् ॥ २५५ ॥
एकं वा द्विभागं वा त्रिभागं निर्गमं तु वा ।
अथवा द्वारदेशे तु प(चै) कद्वित्रियुगांशकम् ॥ २५६ ॥
मध्यकैत्वनुशालाञ्च निर्गमं चैकभागिकम् ।
शेषं तु चान्तरालानां नासिकापञ्जरान्वितम् ॥ २५७ ॥
अधोभूमिश्चान्तराले कुम्भकुम्भतलान्वितम् ।
भद्रं वापि विभद्रं वा कर्णहर्म्यादिमण्डितम् ॥ २५८ ॥
हारं च कर्णकूटं च उ (चो) त्तराप्तं [च] शिखान्तकम् ।
मध्यकोष्ठस्य शाले तु भद्रशाला विशेषतः ॥ २५६ ॥
पञ्चशालान्वितं वाप्य ऊ (चो) र्ध्वशालान्वितं तुवा ।
नीडाकारयुक्तं वापि चार्थशालान्वितं भवेत् ॥ २६० ॥
उत्तरान्तं कपोतान्तं प्रतिकान्तमथापि वा ।
एवं च मध्यकोष्ठे तु शालानामुन्नतं मतम् ॥ २६१ ॥
शालातटे(ललाटे च) भद्रकोष्ठं वासकोष्ठं वा [पि] कल्पयेत् ।
एवमेतद्दशांशेन [च] शेषं तु युक्तितो न्यसेत् ॥ २६२ ॥
एवं चतुस्स (स्त) ल प्रोक्तं नवांशारम्भं पूर्ववत् ।
तस्मादायते सर्वे (र्वस्मिन्) द्विगुब्वान्तांश (शं) पूर्ववत् ॥ २६३ ॥

Linked texts (1)