Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s34.34
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s34.34
- Language
- English
v3.c24.s34.34
वेदभूतरसांशेन सप्तभागाष्टभागिकम् ।
एवं तु भित्तिमानं तु शेषं तन्नालिकं भवेत् ॥ २६४ ॥
भित्तिबाह्यं तु वृद्धिः स्यात्परितश्चैकभक्तितः ।
अष्टभागावसाने स्याद् बाह्यमानं तु पूर्ववत् ॥ २६५ ॥
कर्णेर्हर्म्यादिविन्यासं तच्चतुर्वर्गकान्तकम् ।
मध्यकोष्ठविशालं तु पूर्ववत्परिकल्पयेत् ॥ २६६ ॥
शेषं तु चान्तरालं स्यात्कूटानां विन्यसेद् बुधः ।
अन्यान्यनुक्तमानानां चतुर्भूम्युक्तवत्कुरु ॥ २६७ ॥
निर्गमं च प्रवेशं चाप्यङ्कद्वारं वक्ष्यतेऽधुना ।
विस्तारे वसुभागं स्याद् विभजेत् प्रद्यु(प्रति)रेव च ॥ २६८ ॥
तदर्धांशावृतं बाह्ये साळं शेषं विदक्षि(च वेदि)कम् ।
वेदितारं चतुर्भागं त्र्यंशं तद्ग्रीवविस्तरम् ॥ २६९ ॥
वेदितुल्यं शिरो(रस्)तारं शेषं प्रासादवद् भवेत् ।
द्वितळजाटे महानासि व[ङ्क]द्वयोर्मध्यनासिकम् ॥ २७० ॥
तच्छालानार्सिकं वापि कर्तव्याकृतिनासिका ।
अन्यान्तरप्रदेशे तु क्षुद्रनासीं(सि) प्रमूर्ध्वते ॥ २७१ ॥
नेत्रनासीविशाले तु रसतारसमं भवेत् ।
त्रिकभाग(गं) द्विभागं वा पञ्चभागं त्रिभागिकम् ॥ २७२ ॥
चतुर्भागं त्रिभागं वा मध्यनासीविशालकम्(ता) ।
तन्त्रिभागैकभागं तु पञ्चभागद्विभागिकम् ॥ २७३ ॥
चतुर्भागद्विभागं वा क्षुद्रनासीविशालकम् ।
पादाधिक(कं) समं वापि पादहीनं तथोच्छ्रयम् ॥ २७४ ॥
महानासिमौलितुङ्गं स्तूपिकाग्रावसानकम् ।
मध्यनासि तदष्टांङ्घ्रि चाग्रं तत् प(फ)लि(ल)कान्तकम् ॥ २७५ ॥
युत्तया वत्तत्क्षुद्रनासीनां कारयेच्छिलिप(ल्प)वित्तमः ।
शालाकारं शिलाकारं स्थू(स्तू)पिकानावृतं तथा (नां सुवृत्तकम्) ॥ २७६ ॥
गलकूटोपसंयुक्तं क्षुद्रनासिचतुष्टयम् ।
श्रीभोगाख्यमिदं प्रोक्तमष्टनासी जयन्त(ख्य)कम् ॥ २७७ ॥
Linked texts (1)
- Mānasāra — Sanskrit