Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s35.1
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s35.1
- Language
- English
v3.c24.s35.1
सर्वेषां मण्डपानां तु लक्षणं वक्ष्यतेऽधुना ।
तैत(ति)लानां द्विजातीनां वर्णानां वासयोग्यकम् ॥ १ ॥
भक्तिमानं तथा भित्तिविस्तारं वाप्यलिन्द्र(न्द)कम् ।
प्रपाङ्गं मण्डपाकारं पञ्चभेदं(दः) क्रमो(मेणो)च्यते ॥ २ ॥
अत्यर्धहस्तमारभ्य षट्षडङ्गुलवर्धनात् ।
पञ्चहस्तान्तकं भित्तिपञ्चा(ञ्च)दशविशालकम् ॥ ३ ॥
विस्तारस्य समं दीर्घं(दैर्घ्यं)मधिकं चैकमेव वा ।
विस्तारद्विगुणान्तं च प(तु चै)कैकाङ्गुलवर्धनात् ॥ ४ ॥
विस्तारार्ष्टाशंकांशेन वर्धनाद् द्विगुणान्तकम् ।
एवं भक्त्यायतं प्रोक्तं भक्तिस्तारमिहोच्यते ॥ ५ ॥
एकं हस्तं समारभ्य षट्षडङ्गुलवर्धनात् ।
भक्तिसारं द्विहस्तान्तं पञ्चधा परिकीर्तितम् ॥ ६ ॥
एकभक्ति(भित्ति) द्विभक्ति(भित्ति) वालिन्द्र(न्द)विस्तारमेव च ।
अधिष्ठानं विना कुर्याज्जन्मादिप्रस्तरान्तकम् ॥ ७ ॥
अथवा पादवंशं च संयुक्तं तत्प्रपाङ्गकम् ।
खदिरं खादिरं चैव घात(पूति)पादस्य(प) दारुभिः ॥ ८ ॥
अन्यैः सारद्रुमैः प्रोक्तं होमान्तं(हेम)पाद[प] दारु च ।
मधुकं चीरिखी सालं(लं) रन्यैः(न्यत) श्रेष्ठद्रुमोत्तमम् ॥ ६ ॥
अथवा शिलासंयुक्तं प्रपासर्वाङ्गमेव च ।
शुद्ध(द्धं) मिश्रं च संकीर्णं यथाशोभं बलं तु यत् ॥ १० ॥
यथालार्भ द्रुमैः स्तम्भैः वंशे त्ववसारवृक्षकम् ।
क्रमुकं स्तम्भयुक्तं वा घातयेत्स्थापयेत्सुधीः ॥ ११ ॥
Linked texts (1)
- Mānasāra — Sanskrit