Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s35.2

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s35.2

Language
English

v3.c24.s35.2

क्रमुकैर्वशयुक्तं वा वेणुमिश्रोर्ध्ववंशकम् ।
दीर्घं च तिर्यग्वंशं चोर्ध्वं तद् दीर्घवंशकम् ॥ १२ ॥
नालिकेरदलाभै(लैः)श्च बद्ध्वा त्वाच्छादनं भवेत् ।
अन्यैरपि दलास्(लैः) सर्वै य(वैर्य) थालाभं वितानयेत् ॥ १३ ॥
वातेन त्वचलं तत्र कुर्याद्विचित्रिका प्रपा ।
प्रपाङ्गं च प्रपाश्चैतत्कुर्यात्तत्तद्विचक्षणः ॥ १४ ॥
देवालये गृहे वापि मण्डपे पृथगेववा ।
अन्तर्वापि बहिर्वापि परितस्तु यथा प्रपा ॥ १५ ॥
यत्र देशे प्रपां कुर्यात्तत्र दोषो न विद्यते ।
इति प्रपाङ्गमुक्तं तं(तु) मण्डपं वक्ष्यतेऽधुना ॥ १६ ॥
देवालयेषु सर्वेषु संमुखे बहुमण्डपम् ।
पुण्यक्षेत्रे तथारामे ग्रामादौ वास्तुमध्यमे ॥ १७ ॥
चतुर्दिक्षु विदिक्षु वापि वाह्याभ्यन्तरतोऽथवा ।
नराणां गृहमध्ये च संमुखे मण्डपं तु वा ॥ १८ ॥
सर्वेषां वासयोग्यार्थं (ग्यं च) मण्डपं यागमण्डपम् ।
नृपाणामभिषेकार्थं मण्डपं नृत्तमण्डपम् ॥ १६ ॥
पाणिपीडनसिद्धार्थं तथा मैत्रं च मण्डपम् ।
उपनयनमण्डपं चैव तथा च स्नानमण्डपम् ॥ २० ॥
अर्भकानां मुखालोकं(कं)मण्डपं सतीमण्डपम् ।
चीरार्थं मण्डपं चैव चामिकार्यार्थमण्डपम् ॥ २१ ॥
सुखान्वितार्थ कल्पेत मण्डपं विविक्क्रमात् ।
मण्डवानां च सर्वेषां स्थानमुक्तं पुरातनैः ॥ २२ ॥
प्रासादाभिमुखे सप्तमण्डपं कल्पयेत्क्रमात् ।
आदौ [च] सपनार्थं च द्वितीया(यम)ध्ययनमण्डपम् ॥ २३ ॥
विशेषं सपनार्थं च मण्डपं च तृतीयकम् ।
चतुर्थं प्रतिमागारं पञ्चमं स्थापनमण्डपम् ॥ २४ ॥
षष्ठं चापि ततः कुर्यात्तसप्तमर्थमण्डपम् ।
सप्तमं नृत्तगीतार्थमागारं तत्साधकार्थकम् ॥ २५ ॥