Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s35.10
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s35.10
- Language
- English
v3.c24.s35.10
दशांशं चतुरश्रं स्यात्षट्षडंशं तु मध्यमे ।
ऊर्ध्वकूटसमायुक्तं परितो ह्यंशेन मण्डपम् ॥ १२४ ॥
मध्ये द्वारं द्विभागं स्याद् द्विपङ्ग्भागेन चाग्रतः ।
तद्भागेन द्विभागेन द्वारे(रं)पार्श्वे तु वेदिकम् ॥ १२५ ॥
परितोऽलिन्द्र(न्द) भागेन बारकं मुखभद्रकम् ।
अथवा नेत्रभद्रं स्यात् शे(च्छे)षं युक्त्या प्रयोजयेत् ॥ १२६ ॥
दर्भाख्यं मण्डपं प्रोक्तं कुञ्जरशालकं तथा ।
एकादशांशविस्तारमायतं विंशदंशकम् ॥ १२७ ॥
एकभाग(गं) द्विभागं वा मण्डपं परितस्तथा ।
शेषं तु चाङ्गयं मध्यं चेष्टविस्तारसयुतम् ॥ १२८ ॥
अष्टमेकैकपङ्क्तिः स्याद्रथानां निलयान्वितम् ।
कौशिकं मण्डपं प्रोक्तं शेषं युक्त्या प्रयोजयेत् ॥ १२६ ॥
द्वादशांशं तु विस्तारमायामं तद्द्वयं भवेत् ।
अष्टांशं चाङ्गणं मध्ये परितः द्वयंशेन मण्डपम् ॥ १३० ॥
इष्टदिग्वा(ग्द्वा)रसयुक्तमिष्टदिग्गतभित्तिकम् ।
कूलचारकमित्युकं गोमहीर्वा(ड्वा)सयोग्यकम् ॥ १३१ ॥
त्रयोदशांशविस्तारं समाश्रं वायताश्रकम् ।
विस्तारं च यदायामं युक्त्या तत्रैव योजयेत् ॥ १३२ ॥
सप्तांशं विस्तृतं मध्यं कल्पयेदङ्गणं भवेत् ।
तस्य बाह्याष्टतांशेन कारयेत्सन्मसूरकम् ॥ १३३ ॥
विस्तारद्वयमायामशेषं युक्त्या प्रयोजयेत् ।
वद्वाहो मण्डपं कुर्याद् द्वि(अं)शेनावृतमेव च ॥ १३४ ॥
चतुर्दिक्षु चतुर्द्वारमिष्टदिग्गतभित्तिकम् ।
तत्तद्वाह्यावृतांशेन कुर्यात्सप्तमलिन्द्र(मालिन्द)कम् ॥ १३५ ॥
पञ्चांशं चन्द्र(द्वांशं) विस्तारं निर्गमं भद्रसंयुतम् ।
सुस्वाङ्गाख्यमिति प्रोक्तं सर्वयोग्यं तु मण्डपम् ॥ १३६ ॥
मन्वंशसमविस्तारम(रं तत्समा)थिका(कसा)यतम् ।
दक्षिणे पश्चिमे वापि चतुर्दंशांशमायतम् ॥ १३७ ॥
Linked texts (1)
- Mānasāra — Sanskrit