Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s35.11

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s35.11

Language
English

v3.c24.s35.11

तदंशेनावृतालिन्दं त्र्यंश(शं) मध्ये तु मण्डपम् ।
मध्यस्तम्भं तु सर्वेषां युक्त्वा द्वारं प्रयोजयेत् ॥ १३८ ॥
तन्मुखे द्व्यंशमावृत्य(तं) द्वा˙ शेषं तथाऽङ्गनम् ।
परितश्चैकभागेन तद्बाह्ये भ्रम(मा)लिन्द्र(न्द)कम् ॥ १३६ ॥
एवं तु सौख्यकं प्रोक्तं शे˙ प्रागुक्तवन्नयेत् ।
नदीतीरे तटाकं वा सिन्धुतीरे प्रकल्पयेत् ॥ १४० ॥
सर्वेषां (र्वासां) देवतानां च तीर्थयोग्यं प्रकीर्तितम् ।
पञ्चदशांशविस्तारमेकत्रिंशायतं तथा ॥ १४१ ॥
अथवा चतुरश्रं स्याच्चतुर्द्वारसमन्वितम् ।
तन्मध्ये पञ्चभागेन सप्तभागाङ्गनं तथा ॥ १४२ ॥
तद्बाह्ये परितोऽशेन कुर्यादन्तर(रा)लिन्दकम् ।
खल्लूरिकापि तद्बाह्ये त्रिचिभागेन मण्डपम् ॥ १४३ ॥
तद्वाह्यावृतालिन्दमेकभागेन कारयेत् ।
तद्बहिश्वावृतांशेन कारयेद् भ्रमालिन्दकम् ॥ १४४ ॥
पञ्चाशं द्वि(द्वां)शविस्तारं निर्गमं भद्रसंयुक्तम् ।
मण्डपस्य बहिर्देशे प्रपां परितस्तु कारयेत् ॥ १४५ ॥
मण्डपे चोर्ध्वकूटं स्यान्मालिकाकृति(ति) विन्यसेत् ।
अथवा रुद्र(तत्तद्दारख)संयुक्तं वातायनसमन्वितम् ॥ १४६ ॥
कर्णो(र्णे)ककर (कर्करी) भद्रं स्वायुक्ता तत्रैव योजयेत् ।
सर्वालङ्कारसंयुक्तं मालिकाख्यं तु मण्डपम् ॥ १४७ ॥
मध्यं(ध्य)कर्णे जलं पूर्यं (र्यं) जलं पुष्पैरलङ्कृतम् ।
एवं वसन्तयोग्यं स्याद् देवानां क्षत्रियादि (दी)नाम् ॥ १४८॥
षोडशांशेन विस्तारं द्वात्रिंशायामकं तथा ।
पूर्ववच्चतुरश्रं स्यान्मध्यस्तम्भान्विवर्जयेत् ॥ १४=॥
मध्याङ्गनं तु पञ्चभागं शेषं प्रागुक्तवन्नयेत् ।
तदेव षोडशांशे तु मध्यरङ्गात्(ङ्गं) षडंशकम् ॥ १५० ॥
तद्वाह्यावृतांशेन चान्तर(रा) लिन्दमिष्यते ।
तद्वहिश्च त्रियं(त्र्यं)शेन मण्डपं परितस्तथा ॥ १५१ ॥

Linked texts (1)