Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s35.17

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s35.17

Language
English

v3.c24.s35.17

कर्णे च द्विद्विभागेन कुर्याद् वासं चतुष्टयम् ।
तद्बहिश्चावृतांशेन संयुक्तं भद्रालिन्दकम् ॥ २२२ ॥
मध्यसूत्रात(तस्य) तु वामे तु द्वारं कुर्याद् विचक्षणः ।
तद्बहिश्चावृतांशेन कुर्याच्चैवं(कं) खलूदिकम् ॥ २२३ ॥
चतुष्कर्णेऽष्टनेत्रे स्याद् भद्रयुक्तं कर्करीकृतम् ।
अथवा वेदभागेन मध्यकोष्ठं समाश्रकम् ॥ २२४ ॥
तद्बहिश्चावृतांशेन जलपादं च निष्क्रमम् ।
तद्वहिः परितो भागे कुर्याच्चैव(का) खल्लूरिकाः(का) ॥ २२५ ॥
तन्मध्ये मण्डपं कुर्यात्कर्णे श्लिष्टक्लभित्तिकम् ।
मध्यस्तम्भं त्यजेत् श(च्छ) स्तं दिक्षु स्तम्भं त्यजेत्तुवा ॥ २२६ ॥
ऊर्ध्वकूटं(टं)समायुक्तं सर्वालङ्कारसंयुतम् ।
तद्वहिः परितो देशे यथेष्टांशप्रपाङ्गकम् ॥ २२७ ॥
नृपाणां भोजनार्थं स्यात्खर्वटाख्यं तु मण्डपम् ।
तदेव भागैकवेदांशं मध्यरङ्गं तमिष्यते ॥ २२८ ॥
तद्बाह्ये त[द्वि] द्विभागेन मण्डपावृतमिष्यते ।
तद्बहिश्चावृतांशेन कुर्यात्तद्भद्रमालिन्दकम् ॥ २२६ ॥
तच्चतुर्दिक्षु मध्यं च स्तम्भं सर्वोपरि त्यजेत् ।
द्विभागैकं नेत्रविस्ता निर्गमं भद्रसंयुतम् ॥ २३० ॥
मध्यभद्रं तु(दस्य) विस्तारं निर्गमं च(मस्य) द्विभागिकम् ।
चतुर्दिक्षु चतुर्द्वारं कर्णे च कर्करीकृतम् ॥ २३१ ॥
ऊर्ध्वकूटं समायुक्तं सर्वालङ्कारसंयुतम् ।
तन्मुखे तत्समांशेन विस्तारायामं कारयेत् ॥ २३२ ॥
चतुःषड्भागविस्तारायामं मण्डपाङ्गणम् (णं स्यात्) ।
पृष्ठश्च पार्श्वयोश्चैव द्वांशेन मुखमण्डपम् ॥ २३३ ॥
द्वारं तन्मुखभद्रं स्यात्कर्णेषु कर्करीकृतम् ।
मण्डपं चाङ्गणं ज्ञात्वा विधाने विविधाननम् ॥ २३४ ॥
सर्वालङ्कारसंयुक्तं वातायनसमायुतम् ।
एवं तु खर्वटं प्रोक्तमभिषेकार्थमण्डपम् ॥ २३५ ॥