Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s35.16

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s35.16

Language
English

v3.c24.s35.16

तत्पुरे च द्विभागेन युक्त्या मध्ये तु चाङ्गणम् ।
तत्पुरे च द्विपार्श्वे च ए(तु चै)कभागेनलिन्र(नालिन्द)कम् ॥ २०८ ॥
तद्वहिश्श्वावृतांशेन मण्डपानां तु अ(त्व)लिन्दकम् ।
मध्ये च(द्वा)रं तु संकल्य विस्तार चाथ दैवतम् ॥ २०६ ॥
तद्विद्विभागेन विस्तारं निर्गमं भद्रसंयुक्तम् ।
एकं वाथ द्वयं वापि द्वारं च त्रयमेव च ॥ २१०॥
तद्बहिश्श्रावृतांशेन कुर्यादावृतालिन्दकम् ।
सर्वालङ्कारसंयुक्तं कर्णाहर्म्यादिमण्डितम् ॥ २११ ॥
द्रोणाख्यं मण्डपं प्रोक्तं देवारामं प्रकल्पयेत् ।
अथवा भूपतीनां च आ(तु चा)त्मार्थं यजनार्थकम् ॥ २१२ ॥
विप्राणां शुभकर्मार्थं सन्यास्याम्यकमण्डपम् ।
अथवा तपस्विनीनां च मठं वा नटफाद्दक(हित)म् ॥ २१३ ॥
एकभागाधिकायामं विस्तारं पूर्ववत्क्रमात् ।
षट्त्रिभागाङ्गणं मध्ये परिवद्धि(तो द्वे) शेन मण्डपम् ॥ २१४॥
ललाटे मण्डपे पूर्वे चैकभागेनलिन्र(नालिन्द)कम् ।
एवं तु भूपहर्म्ये तु मल्लयोग्यं तु कारयेत् ॥ २१५ ॥
तस्मा[द्] अंशाधिकायामं विस्तारं सप्तभागिकम् ।
पञ्चांशं चैकपङ्क्त्यंशं तन्मध्ये चाङ्गणं भवेत् ॥ २१६ ॥
तद्वाह्ये परितः कुर्यादेकभागेन वेदिकाम् ।
एतद् द्रोणं च भूपानामायुधाभ्यासमण्डपम् ॥ २१७ ॥
पञ्चदशांशकं दीर्घं (दैर्घ्यं) नेत्रत्रिभागमण्डपम् ।
तत्पुरेऽलिन्द्र (न्द) मेकांशं नवांशेन युताङ्गणम् ॥ २१८ ॥
तत्पार्श्वे पुरतश्चैव युगांशेन खलूरिकाः ।
द्रोणाख्यमण्डपं चैव मेषयुद्धार्थयाग्यकम् ॥ २१६ ॥
अष्टादशांशविस्तारमायामं [च] तत्र कल्पयेत् ।
तन्मध्ये द्विद्विभागेन कल्पयेद् विवृताङ्गणम् ॥ २२० ॥
तद्बहिश्श्वावृतांशेन कुर्यान्नैका खलूरिका ।
तद्बहिश्श्च द्वयंशन मण्डपं परितस्तथा ॥ २२१ ॥