Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s35.26
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s35.26
- Language
- English
v3.c24.s35.26
प्रस्तरोर्ध्वे विशेषोऽस्ति चूली(लि)हर्म्यादिमण्डितम् ।
मध्यरङ्गोर्ध्वकूटं स्यात् प(चे)कद्वित्रितलं तु वा ॥ २५० ॥
रत्नप्रासादरङ्गे तु प्रागुक्तवदलङ्कृतम् ।
तन्मुखे च प्रपां कुर्याद् युक्त्यायामं तु कल्पयेत् ॥ २५१ ॥
नाटका(क)विस्तरं पञ्चपञ्चभागेन योजयेत् ।
पार्श्वे चैव त्रिभागेन बहुपादसमन्वितम् ॥ २५२ ॥
सोपपीठाङ्घ्रिसंयुक्तं प्रस्तरं च प्रपाङ्गकम् ।
प्रमुंखे भद्रसोपानं कर्णे लाङ्गलभित्तिकम् ॥ २५३ ॥
शिले वा दारुजे वापि मिश्रद्रव्येण कारयेत् ।
शेषं तु देवतास्थानं मण्डपोक्तवदाचरेत् ॥ २५४ ॥
एवमास्थानयोग्यं स्यात्तत्स्वराचरयोग्यकम् ।
चतुःषड्भागविस्तारमा(रा)यामं [च] तत्प्रकल्पयेत् ॥ २५५ ॥
द्विचतुर्भागविस्तारमा(रा)यामं [च] मण्डपं भवेत् ।
विस्ताराद् द्विभागेन वंशमूले तु वासकम् ॥ २५६ ॥
तदग्रे द्वित्रिभागेन कुड्यपादसमन्वितम् ।
तद्वहिश्श्रावृतांशेन वारं कान्ताख्यमण्डपम् ॥ २५७ ॥
एवं तु युवराजस्य लीलालोकनमण्डपम् ।
सर्वालङ्कारसंयुक्तं चोर्ध्वकूटसमन्वितम् ॥ २५८ ॥
षडष्टांशेन विस्तारमा(रा)यामं [च] मण्डपं भवेत् ।
द्वित्रिभागेन वासं स्यात्त्रिचतुर्भागमण्डपम् ॥ २५९ ॥
वंशमूलाग्रयोर्वासे तन्मध्ये मण्डपं भवेत् ।
तत्पुरेऽलिन्द्र (न्द) मेकांशं चेष्टदिग्मातभित्तिकम् ॥ २६० ॥
मुखेऽष्टांशामायामं विस्तारं मुखवा(द्वा)रकम् ।
द्वित्रिभागेन वासं स्यात् क(इ)ग्रे मूले नियोजयेत् ॥ २६१ ॥
अथवा मूलवासैश्च द्वित्रिभागेन योजयेत् ।
द्विचतुर्भागविस्तारायामं मूलमण्डपम्(पं स्यात्) ॥ २६२ ॥
तत्पुरे पृष्ठदेशे तु चैकैकांशेनालिन्द्र (न्द)कम् ।
परितः कुड्यसंयुक्तं तद्वहिर्द्वारमेव च ॥ २६३ ॥