Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s35.27

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s35.27

Language
English

v3.c24.s35.27

तस्मादेव द्विभागेन निर्गमं भद्रविस्तृतम् ।
मण्डपे वंशमूलाग्रे त्रिभागं भद्रविशालकम् ॥ २६४ ॥
निर्गमं च द्विभागं स्याद् भद्राष्टतवारकम् ।
मण्डपे चोर्ध्वकूटं स्यात् शा(च्छा)लाकारं तु योजयेत् ॥ २६५ ॥
भ्रष्टवक्त्रसमायुक्तं कर्णेषु कर्करीकृतम् ।
मध्यसूत्रं तु(त्रस्य) वामे तु द्वारं कुर्याद् विचक्षणः ॥ २६६ ॥
श्रीविशालमिति प्रोक्तं महिष्यावासमण्डपम् ।
चतुःषड्भागविस्तारं आ(रा)याम [च] मण्डपं भवेत् ॥ २६७ ॥
द्विद्विभागेन संयुक्तं तन्मध्ये चाङ्गनं भवेत् ।
द्विचतुर्भागविस्तारं वासमायाममीरितम् ॥ २६८ ॥
तत्पुरे पृष्ठभागान्तं चैकद्वारेण कारयेत् ।
तद्बहिर्द्वारमेकेन परितः कूटाकृतिस्तथा ॥ २६९ ॥
वंशमूलाग्रयोर्वासं त[द्वा] द्वारं वासमध्यमे ।
मण्डपे सूत्रमध्ये तु (मध्यसूत्रस्य) वामे द्वारं तथाथवे ॥ २७० ॥
एवं सोमार्कनामस्य (स्यात्) वैश्यानां च (ब्राह्मणानां) पचनालयम् ।
तदेव (तच्च) विस्तारदीर्घे (दैर्घ्ये)षु द्विद्विभागेन वर्धनात् ॥ २७१ ॥
अन्यत् क्षत्रियसर्वेषां युगभागेन मण्डपम् ।
विस्तारं द्विगुणान्तं स्याद् द्विद्विभागेन वर्धनात् ॥ २७२ ॥
यथा तद्विनियोगार्थं मण्डपं वैश्यशूद्रयोः ।
तत्तद्विस्तारशालार्वमष्टदिग्भागभित्तिकम् ॥ २७३ ॥
देवानां भूसुराणां च मण्डपं जातिरूपकम् ।
भूपानां मण्डपे(पं) सर्वे(वं) छन्दरूपमितीरितम् ॥ २७४ ॥
वैश्यानां तु सर्वेषां विकल्पं चेति कथ्यते ।
शूद्राणां मण्डपं सर्वमाभासमिति कीर्तितम् ॥ २७५ ॥
केचिद् भद्रविशेषेण जातिरुक्ता पुरातनैः ।
द्विवक्त्रं दण्डकं प्रोक्तं त्रिवक्त्रं स्वस्तिकं तथा ॥ २७६ ॥
त्रिवक्त्रं लाङ्गलाकारं नन्द्यावर्तं चतुर्मुखम् ।
षण्मुखं मौलिकं प्रोक्तं मण्डपं चाष्टवक्त्रयुक् ॥ २७७ ॥