Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s35.8
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s35.8
- Language
- English
v3.c24.s35.8
षड्भागेन विशाले तु चायामं चाष्टभागिकम् ।
वेदभागेन विस्तारं षड्भागायामतोऽङ्गणम् ॥ ६६ ॥
तत्तद्बाह्यावृतांशेन वसपं(मण्डपं) परिकल्पयेत् ।
आयामे मध्यसूत्रान्तु वामे द्वारं तु योजयेत् ॥ ६७ ॥
कूटाङ्गं मण्डपं कुर्यात्प्रच्छादनमथापि वा ।
शिवाख्यमण्डपं प्रोक्तं धान्यकर्णन (र्पण) योग्यकम् ॥ ६८ ॥
पञ्चसप्तांशविस्तारं तस्माद् द्वि(अं)शाधिकायतम् ।
मण्डपं तत्तदंशेन समाश्रं वायतं तु वा ॥ ६६ ॥
सप्तिभागाङ्गशं मध्ये चैकद्वांशेन मण्डपम् ।
वातायनसमायुक्तं दृ(चे)ष्टदिग्वा(न्द्रा) रसंयुतम् ॥ १०० ॥
मध्यं प्रच्छादनं कुर्यात्त्रपाङ्गं वाधिकल्पयेत् ।
एकभागेन बाह्ये तु परितो भूप(भ्रमा)लिन्दकम् ॥ १०१ ॥
तत्तद्भागेन संयुक्तं ने(मा)नं प्रागुक्तवन्नयेत् ।
एवं तु(नृत्तारूढं)मण्डपं प्रोक्तं नृत्तश्रवणयोग्यकम् ॥ १०२ ॥
तदेव चेष्टदिग्वासं कुर्यादेवं तु जालकम् ।
वस्त्राभरणशस्त्रादीन(दि) रत्नकोशादियोग्यकम् ॥ १०३ ॥
विस्तारं सप्तभागं स्याद्यवेष्टांशं तथायतम् ।
समाश्रं वाथ वेदाश्रं कुर्यादास्थानमण्डपम् ॥ १०४ ॥
विस्तारं (र) द्विगुणं वापि त्रिगुणं वा तदायतम् ।
समाश्रं सप्तसप्तांशे त्रित्रिमध्यमराङ्गतम् ॥ १०५ ॥
परितो (सद्रचै) कैकभागं द्वयंशिर्क मण्डपं तु वा ।
पृष्ठे तत्पार्श्वयोर्मध्ये मुखे पादसमन्वितम् ॥ १०६ ॥
पार्श्वयोः पृष्ठतः द्वारं (वस्तु वा) द्वारं तु प्रस्तरं तु वा ।
पार्श्वेकद्वारसंयुक्तं युक्त्या सोपानसंयुतम् ॥ १०७ ॥
चतुर्दिक्षु द्विभागैकं विस्तारं भद्रनिर्गमम् ।
अथवा मुखभद्रे तु निर्गमं तद्विभागिकम् ॥ १०८ ॥
सह्रमे वाथ पार्श्वे च कुर्यात्सोपानभूषणम् ।
तस्य मध्ये च रङ्गे तु मौक्तिकेन प्रपान्वितम् ॥ १०६ ॥
Linked texts (1)
- Mānasāra — Sanskrit