Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s35.7
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s35.7
- Language
- English
v3.c24.s35.7
देवतार्थं समुद्दिश्य पानीयाद्य मण्डपम् ।
पूर्वोक्तविजयं नाम मण्डपं तत्र कारयेत् ॥ ८२ ॥
त्रिभागं चतुरश्रं स्याच्चतुर्द्वारसमन्वितम् ।
द्विरष्टरविपादं स्यात् सिद्धायादि सर्वशः (योगाख्यमुच्यते) ॥ ८३ ॥
चतुरश्रं चतुर्भागं मध्यस्तम्भान्परित्यजेत् ।
मध्ये तु चाङ्गणं कुर्यात् अं(दं)शेनाष्टतमण्डपम् ॥ ८४ ॥
एकद्वित्रिचतुर्द्वा कल्पयेत्तु यवेष्टकम् ।
एकांशमावृतद्वारं पार्श्वे वारं प्रकल्पयेत् ॥ ८५ ॥
एकद्विभागविस्तारं निर्गमं भद्रसंयुतम् ।
तत्पार्श्वे च मुखे वापि सोपानं तत्प्रकल्पयेत् ॥ ८६ ॥
एवं तु पद्यकं प्रोक्तं देवानां पचनालयम् ।
सिद्धाख्यमण्डपं चापि पचनालयमेव च ॥ ८७ ॥
विस्तारे (रं) वेदभागेन पञ्चभागं तदायतम् ।
द्वित्रिभागाङ्क(ङ्ग)णं मध्ये चांशेनावृतमण्डपम् ॥ ८८ ॥
तद्वहिः परितो देशे चांशेनालिन्द्र (न्द) मिष्यते ।
त्र्यंशं तद्भद्रविस्तारं निर्गमांशेन योजयेत् ॥ ८९ ॥
वातायनसमायुक्तमेकद्वारं प्रकल्पयेत् ।
अङ्गणे च प्रपायुक्तं पद्मा (पुष्या) ख्यं पुण्यमण्डपम् ॥ ६० ॥
पञ्चांशं चतुरश्रं स्यात्तन्त्रिभागाङ्गणं भवेत् ।
तद्बहिः परितोंऽशेन मण्डपं परिकल्पयेत् ॥ ६१ ॥
वातायनसमायुक्तं भद्र (द्रं) शेषं तु पूर्ववत् ।
जलसंपूरितार्थाय (र्थं च) भद्रमण्डपमीरितम् ॥ ६२ ॥
तदेकभागाधिकं वापि द्विभागाधिकमायतम् ।
तद्वि द्वित्रिभागं वा (विस्) तारं पञ्चांशमायतम् ॥ ६३ ॥
विस्तारे मण्डपं कुर्यात् इ(वि)ष्टदिग्गतभित्तिकम् ।
अग्रे च द्वारमेकं स्याद्युक्ता चाङ्गणसंयुतम् ॥ ६४ ॥
तद्बहिः परितोंऽशेन द्वारं कुर्याद्द्विचक्षुषः ।
मण्डपं भद्रसंयुक्तं धान्यनिक्षेपयोग्वकम् ॥ ६५ ॥
Linked texts (1)
- Mānasāra — Sanskrit