Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s36.2
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s36.2
- Language
- English
v3.c24.s36.2
सर्वासामपि शालानां लक्षणं वक्ष्यतेऽधुना ॥ १ ॥ दण्डकं स्वस्तिकं चैव मौलिकं च चतुर्मुखम् । सर्वतोभद्रकं चैव वर्धमानं च षड्विधम् ॥ २ ॥ त्रिहस्तं तु समारभ्य द्विद्विहस्तविवर्धनात् । त्रयोविंश[न्] करान्तं स्यादेकादशविशालकम् ॥ ३ ॥ युग्महस्तविधानेन चतुर्हस्तं समारभेत् । चतुर्विंश[त्] करान्तं स्याद् द्विद्विहस्तविवर्धनात् ॥ ४ ॥ एवमेकादशं प्रोक्तं चैकशालाविशालता । सप्तहस्तं समारभ्य द्विद्विहस्तविवर्धनात् ॥ ५ ॥ नवपङ्क्तिकरान्तं स्यात्सप्तधा विस्तृतं भवेत् । अष्टहस्तं समारभ्य विंशद्धस्तावसानकम् ॥ ६ ॥ द्विद्विहस्तप्रवृद्धेन कारयेत् शि(च्छि)ल्पिकोत्तमः । विस्तृतं सप्तधा चैव स्वस्तिके मौलके तथा ॥ ७ ॥ विस्तार(रं) द्विद्विहस्तेन वर्धनादु द्विगुणान्तकम् । देवानां च तपस्वी(स्वि)नां शालादीर्घं(दैर्घ्यं) प्रकीर्तितम् ॥ ८ ॥ द्विगुणां वा(णान्ता)यताः शाला भूसुरादिचतुष्टये । शालाविशालवा[मा]रभ्य पादार्धं त्रिपादकम् ॥ ६ ॥ तत्समं वाधिकायामे तस्मात्पादाधिकं तु वा । त्रिपादं वा समाधिक्यं शालायामं प्रकल्पयेत् ॥ १० ॥ तद्विस्तारसमोत्तुङ्गं सपादार्धं तु तुङ्गकम् । त्रिपादाधिकमुत्सेधं विस्तारं(र)द्विगुणोदयम् ॥ ११ ॥