Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s36.3
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s36.3
- Language
- English
v3.c24.s36.3
प्रथमं शान्तिकोत्सेधं द्वितीयं पौष्टिकोदयम् ।
तृतीयं जयदोत्तुङ्गं चतुर्थं धनदोदयम् ॥ १२ ॥
पञ्चमं चाद्भुतोत्सेधं जन्मादिस्तूपिकान्तकम् ।
अन्यैस्तु सर्वशालानां भित्ति(भक्ति)मानेन विस्तु(चोन्न)तम् ॥ १३ ॥
आदिभूमे(न्या)श्च पादादिषट्सप्ताष्टनवांशकम् ।
दशांशेन विहीनं स्यादूर्ध्वं चोर्ध्वतलोदयम् ॥ १४ ॥
अध्यर्धं प्रस्तरोत्सेधं चार्धेनैवोर्ध्ववेदिका ।
तद्द्वयं ग्रीवतुङ्गं स्याद् ग्रीवतुङ्गद्वयं शिरः ॥ १५ ॥
मस्तकार्धं शिखोत्तुङ्गमृत्सेधमिति कथ्यते ।
देवानां भूसुराणां च भूपानां वैश्यशूद्रयोः ॥ १६ ॥
तपस्विनामा श्रमियां च हस्त्यश्वरथवीथिनाम् ।
बौद्धानां यागहोमादिशिल्पिनां गणिकादि(दी)नाम् ॥ १७ ॥
एकशाला(लं) द्विशाला(लं) च त्रिशालांश्र(लं च) चतुर्मुखम् ।
पूर्वोक्ततत(ति)ज्ञानां च द्विजात्यादिषु योग्यकम् ॥ १८ ॥
एकानेकतलान्तं स्याच्चूलिहर्म्यादिमण्डितम् ।
प्रासादवदलङ्कृत्य देवभूसुरभूपतेः ॥ १६ ॥
चूलिहर्म्यं विना कुर्याद् वैश्यशूद्रादिजन्मनाम् ।
शालायाः परितोऽलिन्द्रं(न्दं) पृष्ठतो भद्रसंयुतम् ॥ २० ॥
पुरतो मण्डपोपेतं सर्वालङ्कारसंयुतम् ।
एवं तु मानुषाणां च तत(ति)ज्ञानां च कारयेत् ॥ २१ ॥
शालामध्ये च देवानां वासं कुर्याद् विचक्षणः ।
शालायाः पार्श्वतो वासं द्विजात्यादिषु सर्वशः ॥ २२ ॥
शालायामे तु वासं च वंशमूले तु योजयेत् ।
गृहिणीनां तु शालायां सभ्यवासं प्रकल्पयेत् ॥ २३ ॥
उक्तानां सर्वजातीनां दण्डकं तु चतुर्दिशि ।
पूर्वे वा दक्षिणे वापि पश्चिमे दण्डकं न्यसेत् ॥ २४ ॥
एवं चामात्ययोग्यं स्यान्महोदग्द्वारं महीभृताम् ।
दक्षिणे पश्चिमे शालायुक्तं स्वस्तिकमेव च ॥ २५ ॥